SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ कामपालेन सहास्मिन्नेव पत्तने निभृतमवात्ताम् । सम्प्रति दारिद्र्यात् स्त्रीचरित्रेण पुनर्मनोरमंश्रेष्ठिनमुपशिश्रियतुः। सोऽपि मुग्धभावात् तयोः सत्कारातिशयं विधत्ते। होलिकापि पितृनिकेतने खवल्लभेन || कामपालेन साकमद्यावधि विषयसुखमनुभवति, यूयमहर्निशं तां पश्यन्तोऽपि तत्कपटं ज्ञातुं न | शक्नुथ । ढूँढा तापसी तु शयानैव प्रबलानलज्वलितकलेवराऽविचलितचित्ता शुभभावपूर्वकमकाम- T21 निर्जरया मृत्वा व्यन्तरनिकायिकेषु देवेषु देवी समभवत् , सा चैवास्मि । अहं च विविधान् देशान् । पर्यटन्ती दैवयोगादिदं नगरमासाद्यावधिज्ञानेन निजपूर्वजन्मचरितं सर्वमज्ञासिषम्-होलिकयैवेदं । सर्वमकृत्यमनुष्ठितम् । यस्या जीवनं मया परिरक्षितं, पतिसंगमनं कारितं, विविधं सुखमुत्पादितं, I सर्वं कुकर्म गोपितं, तस्या ईदृशीं कृतघ्नतां ज्ञात्वा मे महान् कोपोऽभवत् । किश्च एतन्नगरनिवासिनो ज्ञानविहीनाः केचन नीचजना भिक्षमाणां ढूँढातापसी जहसुर्निनिन्दुर्धिक्चक्रुश्च । अत: उभाभ्यां कोपाभ्यां परिकोपितचित्ताऽहं तेषां दुष्टदुष्टानामनिष्टसाधनाय सकललोकसंहारी-महामारी प्रावर्त्तयम् । अद्यारभ्य कल्याणकामैर्युष्माभिर्होलिकोपहासादिकं कर्म प्रतिहायनमनुष्ठेयम् । यदि Lain Educ a tional For Personal & Private Use Only mainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy