SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ - ख्यानम् । ३॥ कस्यचित् जननं परिणयनं वा भवेत् स होलिकादिने — ढूँढणा' इति कृत्यं विदध्यात् । एवं देवी- | वाक्यं समाकर्ण्य राजप्रभृतयः सर्वे नागरिका नराः साञ्जलयोऽब्रुवन्-हे मातः ! वयं प्रत्यब्दं भवदीयवचनानुकूलमेतदनुष्ठानं विधास्यामः । श्रीमती चास्मासु सदा सदाशया प्रसीदतु । तदा तदास्यविनिर्गतदीनवचनमनुविचिन्त्य देवी सद्यः प्रसद्य तेषु विगतगर्वेषु भक्तवर्गेषु पुष्पवर्ष कृत्वा तां महामरीमुपसंजहार । सर्वे सानन्दं स्वस्वभवनमगमन् । । कतिपयपुस्तकेषु प्रबन्धभेदाऽधिगम्यते । तद्यथा-यदा ढूँढा व्यन्तरी अवधिज्ञानेन स्वकीयं | क्लेशप्रभवं पूर्वभवमपश्यत्, तदा तस्याश्चित्ते प्रभूतकोप उपजातस्तत्पत्तनजननिधनाय । सा व्यचिन्तयत्-यदहो एते नागरिका प्रतिदुष्टा मह्यं भिक्षामपि सम्यक् न प्रायच्छन् , प्रत्युत मामुपजहसुः, अत एते नूनं दण्डनीया इति । एवं सश्चिन्त्य सा सर्वनगरचूर्णनाय तावन्मात्रामेकां १ होलिकाकाले शिशून् विष्टरेषु समुपवेश्य तेषां पुरः पञ्चवर्षीयान् पश्च बालकान् उपवेशयत् , तेषां वामहस्ते पर्पटें (पापड् ) दक्षिणहस्ते काष्ठखड्गं दद्यात् । ततस्ते बालकाः खङ्गेन पर्पट प्रहरन्तः 'ढूँढो ढूँढो' इति मुखेनोच्चारणं कुर्वन्तु' इदमेव ' ढूँढणाकृत्यम् ' इत्युच्यते । अस्य प्रचुरप्रचारस्तु मरुमालवमेवाडदेशेषु दृश्यते। ॥१३॥ La n ternational For Personal & Private Use Only W w w.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy