________________
शैलशिलामानीय पुरोपरि वियति समवतस्थे । होलिकापुण्यप्राबल्यात् तु तां निपातयितुं न शशाक। नागरिकास्तु प्रबलशिलाऽवलोकनकालादेव साध्वसाकुला विविधस्तवैर्व्यन्तरी तुष्टबुः प्रार्थयाम्बभूवुश्च । व्यन्तरी मेघगम्भीरया गिरा प्रतिबभाषे-अरे दुष्टा नागरिकाः ! मम पितृकुले सर्वे भाण्डजातीयाः, श्वशुरकुले च भरडजातीया जना आसन् । अतो मत्प्रेमास्पदीभूतास्त एव जीविष्यन्ति युष्मान् तु सद्योऽद्य चूर्णयामि, न चाहङ्कस्यापि प्रार्थनां शृणोमि । इति तद्वाक्यं समाकर्ण्य भयाकुलाः सकललोका मिथः समन्त्र्य जिजीविषया भाण्डा भरडाश्च बभूवुः । कुलमर्यादां त्यक्वा | भाण्डावत् सर्वेऽसभ्यभाषणं बभाषिरे, तथा प्रतिपदि सर्वशरीरे रेणुकर्दमलेपनं कृत्वा भरडवत् | प्रतिमार्ग विजह्वः विप्रजहसुः, ननृतुश्च । तदा सा सर्वं नगरमेव भाण्डभरडमयमवलोक्य सुप्रसद्य Lal सद्यः शैलशिलामुपसंहृत्य स्वस्थानं प्रतिनिववृते इति ।
___ अथ होलिकासम्बन्धं योजयामि । तत्र माघशुक्लपूर्णिमायां कामपालो होलिकाग्रहणनिर्णयं IN स्थिरीचकार । तपस्यासितचतुर्दश्यामादित्यमन्दिरे तां संजगाम । अस्मिन्नन्तरे चतुर्दशदिनावधिको |
वियोगोऽभूत् । फाल्गुनशुक्लपूर्णिमायां ढूँढां ददाह, अस्मात् कारणात् तस्मिन् घने होलिकादाहनं ।
Jain Educational
& Private Use Only
helibrary.org