________________
काss १४ ॥
28
व्यवस्थापितम् । कामपालस्य दुर्दशा प्रदर्शनार्थम् ' ईलाजी ' ( मृत्युद्गलमयनराकृतिः ) स्थापना समुपदिष्टा । एवं होलिकारीतिः क्रमशः सर्वदेशेषु प्रससार ।
हे शिष्य ! अस्य पञ्चमारकस्य प्रभावात् विषमविषयविषपूर्णानि बहूनि पर्वाणि प्रादुरभवन् । यानि लोकाः सम्यगभ्युपगम्य त्रपामपास्य तत्र प्रवर्त्तन्ते । एवं गुरुमुखात् होलिकावृत्तान्तं श्रुत्वा शिष्यः पुनरपि गुरुं पप्रच्छ - हे पूज्य ! अनया होलिकया किमीदृशं सुकृतं समुपार्जितम्, येन व्यन्तरी किमपि दुःखं दातुं नाशकत् ? सासदा सानन्दा विषयविलासं सिषेवे ? किञ्च सा वाल्यकाल एव कथं विधवा बभूव ? गुरुरुवाच - भोः शिष्य ! अस्मिन् संसारे यद्यत् सुखं दुःखं वोपलभ्यते, तत्सर्वं कर्मजन्यमेव । यथा पुराकृतं कर्म तथैवेहोदेति । कर्मफलानुभवः सर्वैरेव क्रियते । तथा चोक्तम् — “ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् " इति अतो व्यन्तरी होलिकानन्दं विहन्तुं नाशकत्। अथ होलिकायाः पूर्वभवः श्रूयताम् - पाडली पुरे नगरे परमार्हतः ऋषभदत्तनामैकः श्रेष्ठी प्रतिवसतिस्म । तस्य चन्दनाभिधानायां धर्मपत्न्यां द्वौ सुतौ रूपलावण्यादिगुणगणोपेता देवीनाम्नी सुता, चैकेति सन्ततित्रयं समजनि । यदाऽऽत्मजाऽष्टवर्षा बभूव, तदापिता
For Personal & Private Use Only:
ख्यानम् ।
।। १४ । 17ww.jainelibrary.org