SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ 29 विद्याध्ययनार्थ पाठशालायां गुरुसमीपं प्राहिणोत् । सा च तत्र कुशाग्रमतित्वात् अल्पीयसैवानेहसा | सकलकलासु कुशला बभूव । सा सर्वदेव पितृभ्यां साकं सामायिकपौषधप्रतिक्रमणप्रमुखां धर्म- | क्रियां कर्तुमारेभे, यथाशक्ति अन्यानपि व्रतान् नियमांश्च पालयामास । तस्य गृहसमीपे तु मिथ्या- 1 त्विनो ब्राह्मणादयो न्यवात्सुः । तेषां पुत्रिकाभिः सार्धमियं देवी अहर्दिवं चिक्रीड, नानाविधानि गोष्ठीहास्यकुतूहलान्यपि विदधे। यत्र विद्वान् द्विजन्मा पुरोहितः कथां वाचयेत् . तत्रावश्यं गत्वा सा | शृणुयात् । यद्यपीयं जैनधर्मावलम्विनी बभूव, तथापि संसर्गवशान् मिथ्यात्विनामपि सत्कारातिशय करोति स्म । उक्तं च "संसर्गजा दोषगुणा भवन्ति" इति । मिथ्यात्विनां सर्वेषु पर्वोत्सवेषु तस्याः | प्रभूता श्रद्धा संजाता रागद्वेपूर्णान् देवीदेवान् पर्यचरत् , मनसि व्यचिन्तयच्च-जैनधर्मे वीतरागो देवः, । स कस्यापीष्टमनिष्टश्च न करोति । वैष्णवधर्मे तु जगतः कर्ता परमेश्वरोऽस्ति, ब्रह्मा जगद्रचयति, हरिः पाति शिवः संहरति, अत एवैते सर्वे यथेष्टमभिलाषं प्रपूरयन्ति । एवं विचिन्त्य श्रेष्ठवरपुत्र-d लाभाय गणगौरपर्वानुष्ठानं व्यघात् , तदा तदीयौ पितरौ निजगदतुः-अये बाले ! चिन्तामणिमिव | 10 जैनधर्ममपास्य काचखण्डमिव मिथ्यात्विमतं किमाश्रयसि ? अमृतकंसं विहाय विषकंसं न परि Sain Education International For Personal Private Use Only Hidiainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy