SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ बर्द्धनका ख्यानम्। 30 गृहाण " इति । तदाऽपि सा मिथ्यात्विना परिचयाधिक्यात् स्वाग्रहं न जहौ, पितृप्रमुखकुटुम्ब- वर्गस्य वचनं नाजीगणत् । तदा जननीजनयितारौ विमनायमानौ क्वापि केचन वणिक्सूनुना सह तस्याः पाणिग्रहणमकुरुताम् । कर्मवशात् सा देवी द्रागेव मृत्वा होलिका बभूव । कथावाचको ब्राह्मणश्च कामपालः, ब्राह्मण सुता तु ढूँढाऽभवत् । देव्या किमपि जैनशासनमनुष्ठितं, तेन सुखिनी, व्रतभङ्गो-कारि तेन बालविधवा जाता। पूर्वभवमित्रतावशात् हूँढया कामपालेन सह । योजिता । साऽपि कुकृत्यकरणाद् वह्निनाऽदह्यत । होलिकाकामपालाविह मृत्वा चिरं संसारं परिभ्रमिष्यतः । एवं लोके प्रचलितमेतत् होलिकापर्व, यदधुनाऽपि परमार्थशून्या जनाः समाचरन्ति । एवमियं द्रव्यहोलिका कर्मपुञ्ज प्रवर्धयति, बहूननश्चिोत्पादयति, तस्मान्नरवरियं द्रव्यहोलिका KI सर्वथा त्याज्या, अस्यास्तु संमुखमपि नावलोकयेत् । होलिकाचिकीर्षुभिर्भावहोलिकैव कर्तव्या । प्रतिवत्सरं चातुर्मास्यत्रयं भवति । तत्र फाल्गुन्या चातुर्मास्यं चतुर्दशीपूर्णिमातिथ्योः षष्ठभक्तं विधाय पौषधव्रतं धारयेत् । समुदितोऽऽखिलसंघो महोत्सवपूर्वकं भगवतः पूजनं कुर्यात्। भक्त्या प्रणमेत्। सुगन्धद्रव्याणि कुङ्कुमादीनि प्रविकिरेत् । ॥ १५ ॥ Sain Ed lernational For Personal & Private Use Only Silw.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy