SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ खामिवात्सल्यं विदध्यात् । एवं सर्व, कृत्यं विधाय तपोऽग्निना कर्मकरीषं ज्वलयेत्, रागद्वेषकाष्ठानि | प्रदीपयेत् । धर्मध्यानजलेन परिषिश्चेत् । नवतत्त्वरूपं गुलालमुत्पातयेत् । सुमतिजलनलिका हस्ते कृत्वापशमजलानि सर्वतः परिनिक्षिपेत् । नवकारं ध्यायेत् । एवं भावहोलिका समाराध्यते । येन । कर्मणा खेषां परेषां च सम्यगुपकारो भवति, तदेव कर्मानुष्ठातव्यम् । येन च कर्मणा शास्त्रविडम्बना लोकापवादो धर्महानिर्धनक्षयः, शिष्टजनपरिहासास्पदत्वं च स्यात् , तदवश्यं प्रयत्नतस्त्याज्यम् । अन्यथा “ यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनु वर्तते” इति न्यायमाश्रित्य सर्वे भ्रष्टाः स्युः। __ अरे भव्यलोकाः ! मिथ्यात्वरूपिका लौकिकहोलिका कथमपि कल्याणकारिका न भवति ।। सौभाग्यम् , आरोग्यम् , आयुष्यम् , अद्भुतासंपत् , अनुपमरूपलावण्यम् , निर्मलं यशः, ऐश्वर्यम् , हस्त्यश्वरथपदातिदलसहिता राज्यलक्ष्मीः, चातुर्यम्, विवेकसहकारिपाण्डित्यम् , इत्यादिकां समृद्धिं यदि यूयमभिलष्यथ तदा दुर्गतिप्रदानि मिथ्यात्विनां पर्वाणि मुञ्चत । सर्वसंपत्तिप्रदं स्वर्गापवर्गानन्दकारणीभूतं श्रीजिनेन्द्रप्रतिपादितं शुद्धमहिंसामयं जैनधर्ममेव समाश्रयत । येनो Sain Educa t ional For Personal & Private Use Only Mainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy