SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ बिद्ध टकुमार ६८ ॥ 180 वार्तया तत्कालोद्भूताऽन्तर्विषादविह्वलीकृतो नरपतिरुत्सवं वर्णयन्निव मूर्धानमचकम्पत किञ्च-रे दुर्दैव! मयि मधुना विपरीतं फलं वितर वितरेति मुहुः परिगदन् मनसा विधिं धिक्कुर्वन् मन विस्मयाधिक्यं दधदपि राजा बहिः रञ्जितइवाऽभूत्तमां निजसुतोद्वाहश्रवणात् । हन्त ! कुमारेण विपरीतमेव सर्वमकारि, अहमन्यदेवालिखम्, तत्तु नैवाऽकारि । अत्याश्चर्यमेतत् । यन्मम राज्ञ आदेशमवगणयता विनयवतापि कुमारेण ततो विपरीतं व्यधायि । अथवा मयैव विपर्यस्तधिया तथैवाऽऽलेखि तदा । अपि च- निजप्राज्यराज्य विलोपशङ्काव्याकुलतया समुद्गच्छदश्रुपूर्णलोचनयुगलोऽपि महीपतिस्तदानीं सदसि जनान् बहिरानन्दमेवाऽदीदृशत् सञ्जाता सीमानन्दव्याजेन । इत्थं बहिरुच्चैस्तमं प्रहर्षं दर्शयन्नपि स्वान्ते दहनज्वालोपमया शुचा तातप्यमानः क्षितीशः सह कुमारेण वधूवरौ समाह्वातुं लेखं प्रैषीत् तत्र । अथ राजलेखमधिकृत्य तदर्थमवगत्य च कुमारोपि तदैव वधूवराभ्यां सत्रा चतुरङ्गन्या चम्बा शोभितस्ततोऽचलत् । अथ तदागमनसोत्सुकैरशेषैः पौरजनैरनुरागातिरेकान्नृपादेशात्प्रागेव नगर्याः शोभा महती व्यधीयत । अथ पथि पथि रागान्निर्निमेषेचणैः पौरैर्नरनारीगणैः सादरं निपीयमानः श्रीमानघटकुमारश्चक्रिवन्महोत्सवे जायमानेऽन्तःपुरीं प्रावि For Personal & Private Use Only emational चरित्रम् । 115 11 jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy