________________
शत् । तस्मिन् काले सर्वे राजन्याः सामन्ताः सचिवादयो राजजामातरमघटकुमारं ढौकितैरुपायनभरैरधिकं प्रौढं विदधिरे । इत्थं तदुपायनैरतिप्रौढिं गच्छति सत्यघटकुमारे पञ्चषाहेषु व्यतीतेषु च स महीपतिस्तद्वधाय निशायामेकस्यामित्यचिन्तत्-इह लोके कस्यचिदपि पुत्र्या वंशोन्नतिर्न जायते, किन्तु पुमपत्येनैव जायते । अत एनं जामातरं केनाप्युपायेन हत्वाऽकण्टकीभूतमिदं राज्यं सूनवे मया देयम् । इत्यवधार्य कमपि घातुकं सर्वमासूच्य कृत्रिमसंभ्रमो नरेशस्तमित्थं दूतमुखादचिख्यपत्-वत्स ! अस्मदुपयाचितपूर्तयेऽद्य राबावेकाकिना त्वया नगराबहिः स्थितामस्मद्गोत्रदेवीमभ्यचितुं तत्रागन्तव्यम् । एतन्नृपादेशमासाद्य सर्वां बलिपूजनादिसामग्रीमादाय | करे चैकस्मिन् पटलिकां वामे च करे दधानः सोऽघटस्तां देवीमर्चितुमेकाक्येव निशि निजसदना| दचालीत् । तदा सौधगवाक्षस्थः क्षितिपतेः सूनुर्यान्तमघटमुदीक्ष्य दध्यौ-क एष योगीन्द्रो विद्या साधयितुमिव निशि याति, अथामुं समीपमागतं भगिनीपतिमवगत्य तन्मूर्धनि राजकुमारः ।। स्मेरमुखः पूगीफलेन जघान, बभाष च-अये ! महाधूर्त इव लक्ष्यसे । यतः-इयत्यामपि वेलायां रजन्यां ब्रजसि । क्व यासि ? किञ्च चिकीर्षसि, मामपि तदावेदय, इत्यं राजकुमारेण
in Educa
For Personal & Private Use Only
helibrary.org