SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ 118 मासिवान्-भो दैवज्ञ !, किमस्ति ? अमुनाऽघटकुमारेण सत्रा सुन्दर्या अमुष्या मेलापको भविष्यति साधीयान् राजकुमार्या इति विचार्यताम् , निगद्यतां चाशु सर्वमिति । दैवज्ञः स्माऽऽह-आयुष्मन् ! अनयोर्हरगौर्योरिवाऽतिश्रेयान्मेलापकः प्रतीयते, विवाहलग्नोऽयैव सन्ध्यासमये तद्वदेवास्ति शुभंयुः। तदाकर्ण्य कुमारो मनस्यशोचत्-मन्येऽस्मादेव कारणादेष स्वयमेवात्र जवात्प्रहितस्तातेन, सा मे स्वसा तु तत्र नाऽऽहतेति । तदनु भूपसूनुरघटकुमारस्य जन्यावासमिवाद्भुतं पटमन्दिरं निवासार्थमार्पिपत् ।म्वयं विवाहाऽशेषसामग्रीसङ्घटनायोद्यतो राजकुमारःक्षणाद् ब्रह्माण्डस्य सोदरमिव पश्यतां लोकानां चेतोहरमतिविशालं महामण्डपं प्राचीकरत् । अथ सायन्तने शुभवेलायां नृपनन्दनो महता. महेन त्रिजगजनजनितोत्साहः स्वसारमघटकुमारेण पर्यणीनयत् । अथ द्वितीयेऽहनि कुमारप्रेषितः कश्चिद्वर्धापकस्तत्र गत्वा राजानं व्यजिज्ञपत्-राजन् ! दिष्ट्या वर्धापयामि, तत्र भवता यथान्ययोजि, तथैव राजकुमारेण समपादि महीयसाऽभूतपूर्वेणमहोत्सवेन । तदानीं तयोर्वधूवरयोः काचिदवाच्यैव शोभा बोभवाभास, यां कोटिजिह्वोपि निगदितुं नो क्षमते। किन्तु सर्वे पुरावेदिनो जना हस्तावुत्थाप्यैवमूचिरे-यदीदृशी लक्ष्मीर्लक्ष्मीकेशवयोरिवतरयोः कयोश्चिदपि बधूकाले नैवाऽजनीति । अमुया Sain Educ tion For Personal Private Use Only linelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy