________________
118 गयबद्ध-|| पल्लवशय्यायां सुखेन सुष्वाप, सिषेवे चैनं तिलो मन्दसमीरणः स्वैरम् । किञ्च तदानीमेवेतस्ततः । चरित्रम् । घटकुमार | पर्यटन् स यक्षाधिपतिरपि तदीयसुकृतप्रचयैराहूत इव तत्रागात् । तथावस्थमघटकुमारमालोक्य | १६७॥ सकोपं तत्पुरस्तादित्यारव्यत्--हा हा ! केन पापीयसा मदीय एष सूनुरिमां पथिकोचितां दशां
प्रापितः। तदानीमवधिज्ञानेन तत्सर्वं राजेङ्गितं विदित्वा हा हा दुरात्मना राज्ञा सुघटितेनेष हन्तुमेव || प्रहितोऽस्ति । तदनु तत्र राजनि साभ्यसूयो यक्षेश्वरस्तत्क्षणादयःशल्यमयस्कान्तरत्नवद्राजादशं | तत्पादाकृष्य वाचितवान् । तत्रैतदासीत् । एतस्याऽधौतपादस्य तालपुटं गरलं देयमित्यक्षरश्रेणी मालोक्य तत्कालमेव ताममार्जयत् । स पुनरवधिज्ञानेन कटकस्थां राजकुमारी कुमारस्य सहोदरी मवेदीत् । अनेनाऽऽयासमात्रेण सा राजकुमारी परिणाययितव्यति विलिख्य तं राजलेखं पूर्ववत् । स्थापयित्वा यातवान् सः । तदनु प्रातरुत्थायाऽघटोऽपि शिविरमागत्य संमुखीनाय तस्मै कुमाराय | नृपादेशमार्पयत् । तदाकुमारोऽपि तत्पत्रं पठित्वा मूावतंसतां कृत्वा राजानमिव सिंहासने कुमारमघटं नीत्वा साष्टाङ्गमनमत् । ततस्तावुभावपि कुमारौ मिथः परिष्वज्य समुचितासने समुपाविशताम् ।
कुमारो भूयोऽप्यघटानीतं राजलेखमुन्मुद्य तदर्थमवधार्य दैवज्ञमाकार्य सम्भ्रमस्मेरलोचनः प्रश्रया- ॥६७ ।। sain Educ a tional
For Personal & Private Use Only
mainelibrary.org