SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अथ सा भिक्षादानविमुखानां परिहासपराणां जनानामुपरि द्वेषं कुर्वाणा समन्ततः पर्यटन्ती क्वचित् कांचित् तापसी ददर्श । तां सुचिरमुपास्य मारणमोहनवशीकरणोच्चाटनाकर्षणस्तम्भनगर्भ धारणपातनादीनामनुष्ठानानां चूर्णयोगगुटिकामंत्रयन्त्रौषधप्रयोगमधीत्य च ततो लोकेषु प्रसिद्धिं । प्रतिष्ठां च लेभे । सदा तिलकधारणं देवीपूजनं काषायवसनपरिधानं लोकवञ्चनं चारेभे। अधुनाऽपि सा स्वयोगबलेन प्रयत्नान्तरेणापि लोकानां व्याधीनपसारयन्ती सुखं चोत्पादन्ती जनमा- Tal निताऽस्मिन्नेव पत्तने निवसति । सैव होलिकायाः प्रभूतसन्तापमवगन्तुं निवर्तयितुं च प्रभवति। इति निशम्य श्रेष्ठी तत्क्षणं तां योगिनीमाहृय यथाविधि संपूज्य सभार्यश्चरणयोर्निपत्याञ्जलिं बध्ध्वा प्रार्थयाञ्चक्र—" हे मातः ! दीनजनेष्वस्मासु कृपादृष्टिं विधेहि, शरणागताया अस्या मत्सुतायाः | सन्तापमपाकृत्य परितोषमुत्पादय। यदि च भबादशी महानुभावा दीनजनदाखविमोचनं न करिष्यति तर्हि कोऽन्यस्त्राता भवितुमर्हति। अतो यथाऽस्या रक्षा सत्वरं भवेत् तथा विधीयताम् । महानुभावा | योगिन्येवेनां पुत्रीं मह्यमदादित्येवाद्यारभ्याहं वेदिष्यामि ।' इत्यभिधाय ढूंढायोगिनी पुत्रीसकाशFi मनैषीत् । तत्र सा तस्या नाडी दृष्ट्वा शरीरावयवान् स्पृष्ट्रा हृद्गतं कष्टं पृष्ट्वाऽपि कमपि विशेषव्याधिं in Educa Mainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy