________________
अथ सा भिक्षादानविमुखानां परिहासपराणां जनानामुपरि द्वेषं कुर्वाणा समन्ततः पर्यटन्ती क्वचित् कांचित् तापसी ददर्श । तां सुचिरमुपास्य मारणमोहनवशीकरणोच्चाटनाकर्षणस्तम्भनगर्भ धारणपातनादीनामनुष्ठानानां चूर्णयोगगुटिकामंत्रयन्त्रौषधप्रयोगमधीत्य च ततो लोकेषु प्रसिद्धिं । प्रतिष्ठां च लेभे । सदा तिलकधारणं देवीपूजनं काषायवसनपरिधानं लोकवञ्चनं चारेभे। अधुनाऽपि सा स्वयोगबलेन प्रयत्नान्तरेणापि लोकानां व्याधीनपसारयन्ती सुखं चोत्पादन्ती जनमा- Tal निताऽस्मिन्नेव पत्तने निवसति । सैव होलिकायाः प्रभूतसन्तापमवगन्तुं निवर्तयितुं च प्रभवति। इति निशम्य श्रेष्ठी तत्क्षणं तां योगिनीमाहृय यथाविधि संपूज्य सभार्यश्चरणयोर्निपत्याञ्जलिं बध्ध्वा प्रार्थयाञ्चक्र—" हे मातः ! दीनजनेष्वस्मासु कृपादृष्टिं विधेहि, शरणागताया अस्या मत्सुतायाः | सन्तापमपाकृत्य परितोषमुत्पादय। यदि च भबादशी महानुभावा दीनजनदाखविमोचनं न करिष्यति तर्हि कोऽन्यस्त्राता भवितुमर्हति। अतो यथाऽस्या रक्षा सत्वरं भवेत् तथा विधीयताम् । महानुभावा | योगिन्येवेनां पुत्रीं मह्यमदादित्येवाद्यारभ्याहं वेदिष्यामि ।' इत्यभिधाय ढूंढायोगिनी पुत्रीसकाशFi मनैषीत् । तत्र सा तस्या नाडी दृष्ट्वा शरीरावयवान् स्पृष्ट्रा हृद्गतं कष्टं पृष्ट्वाऽपि कमपि विशेषव्याधिं
in Educa
Mainelibrary.org