SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ द्यिबद्धंलिका ख्यानम् । न निश्चिकाय । तदाऽभिमंत्रितं दोरकं करे बबन्ध, प्रवर्तमानदोषप्रशमनाय बहून् मन्त्रान् जजाप। तथापीदं सर्वमपि प्रयतनमरण्यरोदनमिव निष्फलीवभूव, न खलु तस्याश्चित्ते शान्तिमुत्पादयत् । । तदा सुदूरदर्शिनी योगिनी विस्मितचित्ता चिरं व्यचिन्तयत्-यदत्र सर्वजनाविदितं बाह्यचेष्टाविरहितं | स्त्रीचरित्रं तु नास्ति ? महर्षयोऽपि हि स्त्रीचरित्रं सम्यक् वेदितुं नाशकन् किं पुनरितरे जनाः। यदि च | तद्भविष्यति तर्हि सम्प्रत्येवाहं स्फुटीकरोमि, नेयमबला बाला ममाग्रे स्वाभिसन्धि संवरीतुं क्षमते। इति हृदये समवधार्य तस्मात् स्थानात् निखिलान् लोकानपसार्य रहसि होलिकां पप्रच्छ-वत्से ! | न खलु तब कलेवरे कोऽपि व्याधिरुपलभ्यते, अतो मे पुरः सत्यं सत्यं हृदयस्थितं भावमभिधेहि, किन्ते मनसि वर्त्तते ? मातृतुल्याया ममाग्रे न त्रपा कर्त्तव्या, अहं तावकान् सर्वान् मनोरथान् पूरयिष्यामि। एवं योगिनीवाणी समाकर्ण्य होलिका प्रसद्य व्याजहार । मातः नाद्यावधि मया कस्यापि पुरः स्वाभिप्रायः प्रकटीकृतस्त्वां तु परमहितैषिणी जननीं समवगम्याद्य मानसं भावं विनिवेदयामि। हे मातः ! एकस्मिन्नहनि वङ्गदेशभूपालस्य त्रिभुवनपालस्यात्मजं विजितरतिपालं कामपालमवलोक्य मामक चेतो विचचाल, तदारभ्यैव ममेदृशी दशा निर्ववृते । नाहं तमनधिगम्य जीविष्यामि, अतो in Edi tion Per Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy