________________
द्यिबद्धंलिका
ख्यानम् ।
न निश्चिकाय । तदाऽभिमंत्रितं दोरकं करे बबन्ध, प्रवर्तमानदोषप्रशमनाय बहून् मन्त्रान् जजाप। तथापीदं सर्वमपि प्रयतनमरण्यरोदनमिव निष्फलीवभूव, न खलु तस्याश्चित्ते शान्तिमुत्पादयत् । । तदा सुदूरदर्शिनी योगिनी विस्मितचित्ता चिरं व्यचिन्तयत्-यदत्र सर्वजनाविदितं बाह्यचेष्टाविरहितं | स्त्रीचरित्रं तु नास्ति ? महर्षयोऽपि हि स्त्रीचरित्रं सम्यक् वेदितुं नाशकन् किं पुनरितरे जनाः। यदि च | तद्भविष्यति तर्हि सम्प्रत्येवाहं स्फुटीकरोमि, नेयमबला बाला ममाग्रे स्वाभिसन्धि संवरीतुं क्षमते। इति हृदये समवधार्य तस्मात् स्थानात् निखिलान् लोकानपसार्य रहसि होलिकां पप्रच्छ-वत्से ! | न खलु तब कलेवरे कोऽपि व्याधिरुपलभ्यते, अतो मे पुरः सत्यं सत्यं हृदयस्थितं भावमभिधेहि, किन्ते मनसि वर्त्तते ? मातृतुल्याया ममाग्रे न त्रपा कर्त्तव्या, अहं तावकान् सर्वान् मनोरथान् पूरयिष्यामि। एवं योगिनीवाणी समाकर्ण्य होलिका प्रसद्य व्याजहार । मातः नाद्यावधि मया कस्यापि पुरः स्वाभिप्रायः प्रकटीकृतस्त्वां तु परमहितैषिणी जननीं समवगम्याद्य मानसं भावं विनिवेदयामि। हे मातः ! एकस्मिन्नहनि वङ्गदेशभूपालस्य त्रिभुवनपालस्यात्मजं विजितरतिपालं कामपालमवलोक्य मामक चेतो विचचाल, तदारभ्यैव ममेदृशी दशा निर्ववृते । नाहं तमनधिगम्य जीविष्यामि, अतो
in Edi
tion
Per
Private Use Only