SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भवती यदि मामकीनं जीवनं समीहते तर्हि तेन समं मम सम्बन्धं कारयतु, नो चेन्नूनं मे निधनं भविष्यति। हूँढा प्रत्यगादीत्-हे बाले ! मुञ्च चिन्ताम् , अल्पीयसैव कालेनाहं ते मनोरथं सफली करिष्यामि, एवं तां समाश्वास्य परिजनमाहृय होलिकामदर्शयत् जगाद च, मया मन्त्रबलेनास्या अर्धं दुःखं निवारितम्, आगामिनि रविवासरे चेयं पूजोपकरणं गृहीत्वा बहिर्नगरं सूर्य्यमन्दिरं समुपेत्य विधिपूर्वकं भगवन्तं भास्वन्तं पूजयेत्, तदाऽस्याः सर्वे शरीरविकाराः प्रशमिष्यन्ति । होलिका त्वीदृशं साङ्केतिकं योगिनीवचनं निशम्य पुलकितगात्रा परमानन्दसिन्धुनिमग्ना किमपि नोवाच । तदीयः पिता तु योगिनी सत्कृत्य सभार्योऽञ्जलिं बद्ध्वेदं प्रत्यभाषत। हे मातः । यावदियं सर्वथा नीरोगी न स्यात् तावत् श्रीमती प्रतिवासरं समागत्य दासजनेष्वस्मासु परमानुकम्पां कुर्वाणाऽत्रैव भोजनमस्याः प्रतिबोधनं च करोतु। अत्याग्रहं निध्याय योगिनी तत्र प्रतिदिनमागमनं भोजनं | प्रतिबोधनं चानुमेने । होलिकाया मातापितरौ समीचीनां योगिनीभक्तिं कर्तुमारेभाते। योगिन्यपि प्रतिघस्रं श्रेष्ठिगेहं समागत्य भोजनं सकपटं होलिकाया अभिमन्त्रणं प्रतिबोधनं च कर्तुं प्रचक्रमे । होलिकाऽपि पितरौ प्रत्यवोचत्-यदहं सम्प्रति योगिनीमन्त्रबलेन विगलितदुःखाऽस्मि, तयाहि in Education For Personal & Private Use Only Ibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy