________________
ख्यानम् ।
द्यबद्धं- मेऽभिनवं जीवनमुदपादि अतस्तामदृष्ट्वा मुहूर्त्तमपि मे चित्तं न प्रसीदति । अहं तु तां परमेश्वर- लिका
रूपां मन्वे, अतो यथा सा सदैव मे दृष्टिपथेऽवतिष्ठेत तथा विधीयताम् । तदा श्रेष्ठी तनया वचनं |
मानयन् स्वहर्म्यनिकटे योगिनीकुटीमचीकरत् । स्वगृहएव सदैव तस्या आहारप्रबन्धं च व्यधत्त । II योगीनी च प्रमुदितचित्ता भिक्षावृत्तिं परित्यज्य तत्रैवाशनं होलिकासमीपोपवेशनं मिथो विस्पष्ट
रहस्यप्रजल्पनं च कर्तुमुपचक्रमे। ____अथैकदा योगिनी कामपालमुपव्रज्य निखिलां होलिकादशां निजगाद। स तु होलिकादर्शनसमनन्तरमेव स्मरशरप्रवर्षप्रधर्षितवा बभूव, अतो होलिकाया ईदृशीं प्रवृत्तिं श्रुत्वाऽतीव जहर्ष । प्रचुररोमोद्गमप्रकटितप्रभूतशर्माऽनुकूलकाल कामपाल शयौ संधाय प्रियवादिनीं योगिनीं नत्वा प्रत्यूचे-हे मातः ! ममापि तादृशी दशा वर्तते । तां मृगनयनीमनधिगम्याहमनुदिनं मदनमार्गणविधूर्णितचित्तो न किमपि कार्यं कर्तुं प्रभवामि । उक्तं च-" सन्तु विलोकनभाषण-विलासपरिहासकोलपरिरम्भाः । स्मरणमपि कामिनीना-मलमिह मनसो विकाराय ।” तदेवं तां स्मारं स्मारं विकृतचेतसोऽनल्पविकल्पाकुलितस्य मे यथा सत्वरं भूयिष्ठकष्टविनष्टिरिष्टप्राप्तिश्च स्यात्
dain Educ
a tional
For Personal & Private Use Only
BY
w
.jainelibrary.org