________________
| तथा श्रीमत्याऽनुष्ठीयताम् । मामकीनमिमं मनोरथं प्रपूरयन्त्यास्तेऽकारणोपकारिण्या उपकारमाजीवनं स्मरिष्यामि । योगिनी न्यगादीत्-वत्स ! न त्वं स्वमानसं परिखेदय, तूर्णमेवाहं तया | सह त्वां संयोजयिष्यामि, तावत् कालं प्रतिपालयेति । अथ योगिनी कामपालमेवं समाश्वास्य | झटिति होलिकापितरौ समुपगम्य व्याहार्षीत् । श्रेष्ठिन् ! साम्प्रतं भवदीयसुताऽसादितशाता वर्तते, अतो रविवासरान्वितायां चतुर्दश्यामियं पूजोपकरणं गृहीत्वा प्रहरावशिष्टायां निशायां केनापि सह गत्वा मूर्तिमन्तं भास्वन्तमर्चयेत् । अभ्युपगतयोगिनीवचनः श्रेष्ठी स्वलकृतां स्वसुतां योगिनीसहितां मूर्त्तिमदादित्यपूजनाय प्रेषयितुमनुमेने । योगिन्या कामपालोऽभ्यधायि-त्वमागामिन्याश्च. तुर्दश्याः प्रहारावशिष्टायां त्रियामायां बहिर्नगरं भास्करमन्दिरे निभृतमवतिष्ठस्व, तत्र तव मनोरथोऽचिरं सिद्धिमुपयास्यतीति । एतच्च योगिनीवचनं निशम्य कामपालोऽतीव प्रहृष्य मुहुर्मुहुर्यो गिनी स्तत्वा साञ्जलिस्तद्वाक्यमभ्यपजगाम । निर्दिष्टदिने तत्रोपविवेश च । इतः परिजनसहिता योगिनीसमनुगता स्वलकृता होलिका पूजोपकरणपात्रिकामादाय समहोत्सवमादित्यमर्चयितुं प्रतस्थे। तत्र गत्वा योगिनी सूर्यपूजनार्थमागतान् लोकानाहूयोच्चस्वरेण प्रावोचत्-पूर्वमियं होलिका
in Educati
o
nal
For Personal & Private Use Only