________________
बद्धं
ख्यानम्।
पूजां कुर्यात् , तदनु यूयं कुरुथ, अन्यथा मूर्तिमानादित्यः कुपितो भविष्यति, इत्यद्भुतं तद्भाषितं समाकर्ण्य सर्वे तूष्णी यथास्थानमवस्थिताः । होलिका तु तदादेशादेकाकिनी रविमन्दिरं प्रविश्य भास्वन्तं परिपूज्य यावत् प्रदक्षिणीकर्तुमारेभे तावत् परिक्रमणमार्गेऽवस्थितं प्राणनाथं कामपालं ददर्श। स तु तूर्णमुत्थाय सरभसमालिङ्ग्य तन्मुखारविन्दं चिरं परिचुम्ब्य यावदन्तुमारेभे तावदश्रुतयोगिनीवचनः कश्चन मनुजोऽनेकजनवार्यमाणोऽपि तूर्णं सूर्यभवनमनुप्रविश्य दूरादेव तद् दृश्यं ददर्श, तत्क्षणे च प्रतिन्यवर्तिष्ट। होलिका तु स्वानुचितकृत्यं पुरुषान्तरावगतं विदित्वा ल. लज्जे । तद्दोषगोपनाय च स्वाभाविकी मायां निर्माय कामपालं बभाषे-प्रियवर ! यावन्नायात्यत्र | जनता तावत् त्वं सत्वरं मामाहत्योन्मत्त इव किमपि प्रलपन् इतः पलायस्वेति, अवगतकपटजालः कामपालो वामलोचनां विह्वलामवलोक्य नितान्तोन्मत्तमिवात्मानं जनान् संदर्शयन् ' ममेयं स्त्री' इति प्रजल्पन् क्रुद्ध इव तया कलहायमानो मुष्टामुष्टि समनुष्ठीय भीत इव स्वभवनं बभाज, अथ होलिका कुपितेव पलायमानं तमनधिगम्य रोरुद्यमाना पाणिभ्यां स्वशिरस्ताडयन्ती तदलौकिककौतुकावलोकनाय समागतां जनतामिदमूचे-अहो लोकाः ! अथ कश्चन कुपुरुषो मां पस्पर्श, तेन
॥
७॥
For Personal & Private Use Only
Invw.jainelibrary.org