________________
N] महापातकबाधिता संजातशीलविघाताऽहं सतीधर्मेणाऽऽत्मानं ज्वलयित्वा लोकान्तरं जिगमिषामि, d अन्यथा शीलनिमीलनकलङ्किताया मे नियतो निरयपात इति प्रलपन्ती यावत् चिताधिरोहणाय |
प्रावर्तत तावत् तदीयः पिता समागत्य तां न्यगदत् । पुत्रि ! किं त्वमद्योन्मादिनी समजनि, येनानुचितवचनं ब्रवीषि ! देवदर्शने भवत्येव जनानां संघर्षस्तेन किं कस्यापि शीलभङ्गो भवति । अपरेऽपि तत्रानेक महानुभावाः सहसा समागत्य तां मरणोन्मुखीं न्यवारयन्-" अये बाले ! त्वं | सर्वथा लोकव्यवहाराऽचतुराऽसि, यत्त्वं परपुरुषस्पर्शमात्रेणाऽप्यात्मनः शीलभङ्गमाकलयसि । यदि देवदर्शनादिशुभकार्येऽप्यन्यजनसंस्पर्शेनान्यस्य शीलभङ्गः स्यात् तदा सर्वं जगत् शीलहीनं स्यात् सतीधर्मस्तु सुतरां व्यवच्छिद्येत, विवाहादिशुभकृत्यं वा विलुप्येत । तस्मात् हे अनवद्ये ! त्यज्यतामेष धर्मान्तरायो मरणव्यवसायः । त्वं तु महासती वर्त्तसे, कस्त्वां शीलविहीनां व्याहर्तुं शक्नोति?, उत्तिष्ठ गच्छ स्वोदवसितम्” इति संभावितवचनमनुनिशम्य कपटपटुः सा तूर्णं समुत्थाय प्रमुदितचेताः पितृप्रमुखैबन्धुजनैः सह निजनिकेतनमाययो । तत्र दिवानिशमनिशं योगिनिसकाशमध्यवात्सीत् तदीयपितरौ योगिन्याः परमोपकारममन्येताम् । अथ कामपालो योगिनीसङ्केत
Jain Education
For Personal & Private Use Only
brary.org