SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ख्यानम्। प्रबद्धंलेकाऽऽ ४॥ विधायेष्टदेवमावाह्य तदीयदुःखापनयनोपायमुपादिशन् । तद्यथा-पुष्प (देवप्रतिमूर्ति ) धारणं कण्ठे, वेषपरिधानं वरुन्दभोजनमिति । पिता देवसिद्धोपदिष्टमपि सर्वमुपायं चकार तथापि सा न शर्म लेभे। एतस्मिन्नन्तरे श्रेष्ठी लोकमुखादिमां वार्तामशृणोत्-“अस्मिन्नेव नगरे वेदीयाभट्टाभिधस्य भाण्डस्य ढूँढानाम्नी पुत्री बभूव । यदा सा युवती समजानि तदा भरडोपाख्येनैतन्नगरवास्तव्येनाऽचलभूतिना ब्राह्मणेन साकं तस्या उपयामः समुपद्यत । अल्पायुष्कत्वात् स वाडवोऽल्पी यसैवानेहसा पश्चतामयासीत् । अथ सा ढूँढाऽशनपानपरिच्छदशून्यं स्वभवनमपास्य तातधामाध्यवात्सीत् । कर्मगतीनां वैचित्र्यात् तत्रापि मातापितृप्रमुखाः कृत्स्ना अपि बन्धुलोकाः क्रमशः कालकवलीबभूवुः । दारिद्र्याभिभूता बुभुक्षाखिन्नमानसाऽनाथा सा पितृणामौर्ध्वदेहिकं स्वजातिभोजनादिकमपि कृत्यं कर्तुं न शशाक। अथोदरपूरणाय तापसीवेषं विधाय प्रतिसनं पद्मलोचना भिक्षां याचमानाऽधिपत्तनं परिबभ्राम । तादृशीं तामवलोक्य लोकाः पराङ्मुखीभूय प्रायो न ददृशु प्यूचुः । लाभान्तरायकर्मवशात् प्रायेण तया भिक्षापि न सम्यगलम्भि । उक्तञ्च"कृतकर्म क्षयो नास्ति, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम्" ॥१॥ ॥४॥ Lain Edu For Personal & Private Use Only १ w .jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy