________________
मारुह्य गवाक्षद्वारेण विपणिशोभा वीक्षमाणा वङ्गदेशभूपालस्य त्रिभुवनपालस्य पुत्रं धृतालङ्कारजालं
परिवेष्टितानुचरवर्गसंजातशोभामालं कामपालं विपणौ विहरमाणमवलोक्य कामशरवर्षभिन्नमानसा Mal व्याकुलीबभूव । सोऽपि गवाक्षस्याधस्तात् गच्छन् होलिकां रतिकल्पामवलोक्य मुमोह, न च ततो
दृष्टिमपनेतुमशकत् । उक्तं चनार्यो दीपनिभा लोके, पुरुषाः शलभा इव । अतः स्त्रीषु जगत् सक्तं, निरेति विरलो जनः॥१॥ स्त्रीषु स्मरतडागेषु, निमग्नाः सर्वमानवाः । हा लोके कोऽपि नैवास्ति, तेषामुद्धरणे प्रभुः ॥ २ ॥
कामपालस्तु लोकापवादभीतो होलिकावलोकनात् कथमपि दृष्टिं परावर्त्य तत्क्षणं गृहं जगाम। होलिका तु प्रियदर्शनमलभमाना कामज्वरण परिबाधिताऽभवत् । तस्या अशनं पानं शयनं कार्यान्तरं च किमपि न रुरुचे । सदोद्विग्नमानसा परिजनालापविरसाऽवतस्थे। तदा कस्मात्तस्यास्तादृशीं भयावहां दशां निर्वर्ण्य पितृप्रमुखः सकलो बन्धुवर्गो विव्यथे। सवैद्यानाहूय तस्याश्चिकित्सामकारयत्।
मन्त्रयन्त्रानुष्ठान-दोरकबन्धन-दृष्टिदोषापनयनग्रहपूजनानि च व्यधापयत् । अपि च देवसिद्धान् CL भोपा' इत्याख्यान् जनानाकार्य तदीयामवस्थामप्राक्षीत् । ते तु देवालये नर्तनगानवादनानि
Ahelibrary.org