SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ घिबर्द्धलिका ॥३॥ मयासीत् । एवं होलिकाया उभयकुलेऽसकृद् गमनमागमनं चाभूत् । अथो पूर्वभवसंपादितप्रभूतदु- ख्यानम्। कृतोदयेन तस्याः पतिः शूलगदवेदनापरिवाधितचेता विचेष्टमानो वैद्यकविद्याकोविदैः सुचिकित्स्यमानोऽपि नोल्लाघतामलभत, किन्तु तथैव बहुलामीलसंमीलितलोचनोऽनल्पकालं क्लेशमनुभवन् 1 पञ्चत्वमवाप ततोऽस्य पितरौ श्वशुरौ कुटुम्बगणश्चेति सर्वे लोका महाशोकसागरे निममज्जुः ।। पुटभेदनेऽपि महान् हाहाकारः सञ्जातः । तदानीं वृद्धानामेव मृत्युनं च यूनामतस्तमद्भुतं मृत्यु | दृष्वा सर्वे विस्मिता अभवन् । एवं बन्धुजनोऽनल्पदिष्टं विलप्य तस्याग्निसंस्कारादिकानि कृत्यानि | विदधे । द्वादश दिनानि द्वारे नीरं निचिक्षेप, दीपान् ज्वलयाञ्चकार । त्रयोदशे घस्रे स्वजाति भोजनमचीकरत् । एवमेव यथाक्रममैकमासिकं पाण्मासिकं साम्वत्सरिकं च श्राद्धं तर्पणं निवापा. न्तरं चेत्यादि बहुविधं कर्मबन्धनहेतुभूतं मिथ्यात्विनां यत् कृत्यं तत्सर्वं व्यधात्। ततो मातरपितरौ विलपन्ती होलिकां स्वोदवसितं निन्यतुः । तत्र होलिका षोडशवर्षा निवृत्ता। प्रसूजनयितारौ तदीयमदृष्टसंसृष्टं बालवैधव्यकष्टं निवर्तयितुं तस्याः सत्कारातिशयं विदधाते । होलिकाऽपि तत्रादभ्रशर्माधिगम्य प्राक्तनं दुखं विसस्मार प्रत्युत प्रमोदभरं बभार । अथैकस्मिन्नहनि सा स्वहर्म्य IN ॥३॥ in Educ a tion For Personal & Private Use Only ENjainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy