________________
S
क्रीडितुमारेभे । अथ शिष्यः सविनयो गुरुमन्वयुङ्क-भगवन् ! देवगणा क्रिया कीदृशी भवति, तस्याः स्वरूपं विस्तरेणाहं श्रोतुमिच्छामि। गुरुरुवाच, हे शिप्य ! व्यवहारपक्षे देवस्थानमन्त्यमङ्गलं
पाठमहोत्सवस्त्वाद्यमङ्गलं भवति । तत्रान्त्यमङ्गलं द्विविधम्-जैनधर्मसम्बन्धि, मिथ्यात्विसम्बन्धि ४ चेति । तत्र जैनधर्मसम्बन्धि यथा-जैनधर्मावलम्बिनः पुत्री यदि श्वशुरालयं व्रजेत् तदा श्रीजिन
मन्दिरमुपेत्य सोत्सवं देववन्दनं यथासंभवं गुरुवन्दनं च विदध्यात्, सम्यक्त्वादि व्रतं नियमं चाभ्युपगच्छेत् । सैव यदि मिथ्यात्विनः स्यात् तदा जैन श्वशुरालये कदाग्रहेण विवदतेऽन्यानपि । | भव्यजनान् मिथ्यात्वं शिक्षयति, अतः पूर्वमेव तस्या धर्मसम्यक्त्वश्रद्धामुत्पाद्य तदनु कृत्यान्तरं तया कारयेदिति । मिथ्यात्विसम्बन्धि यथा-यदि जैनधर्मावलम्बिनस्तनया विवाहविधिना मिथ्याविश्वशुरालयं गच्छति तदा तत्र मिथ्यात्विनो देवानामसंयतीनां गुरुणां च वन्दना सेवां भक्तिं
च करोति सेयं ' देवगणा क्रिया' इत्युच्यते । ॥ अथ सा होलिका पतिनिकेतने सुखसमाधिपूर्वकं चिरमुषित्वा पितृवेश्म समासदत् । तत्रापि | जननीजनकप्रमुखानां जनानां प्रमोदातिशयं विदधती कतिपयदिनानि स्थित्वा पुनः स्वधवभवन
in Education
MIhelibrary.org