SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ S क्रीडितुमारेभे । अथ शिष्यः सविनयो गुरुमन्वयुङ्क-भगवन् ! देवगणा क्रिया कीदृशी भवति, तस्याः स्वरूपं विस्तरेणाहं श्रोतुमिच्छामि। गुरुरुवाच, हे शिप्य ! व्यवहारपक्षे देवस्थानमन्त्यमङ्गलं पाठमहोत्सवस्त्वाद्यमङ्गलं भवति । तत्रान्त्यमङ्गलं द्विविधम्-जैनधर्मसम्बन्धि, मिथ्यात्विसम्बन्धि ४ चेति । तत्र जैनधर्मसम्बन्धि यथा-जैनधर्मावलम्बिनः पुत्री यदि श्वशुरालयं व्रजेत् तदा श्रीजिन मन्दिरमुपेत्य सोत्सवं देववन्दनं यथासंभवं गुरुवन्दनं च विदध्यात्, सम्यक्त्वादि व्रतं नियमं चाभ्युपगच्छेत् । सैव यदि मिथ्यात्विनः स्यात् तदा जैन श्वशुरालये कदाग्रहेण विवदतेऽन्यानपि । | भव्यजनान् मिथ्यात्वं शिक्षयति, अतः पूर्वमेव तस्या धर्मसम्यक्त्वश्रद्धामुत्पाद्य तदनु कृत्यान्तरं तया कारयेदिति । मिथ्यात्विसम्बन्धि यथा-यदि जैनधर्मावलम्बिनस्तनया विवाहविधिना मिथ्याविश्वशुरालयं गच्छति तदा तत्र मिथ्यात्विनो देवानामसंयतीनां गुरुणां च वन्दना सेवां भक्तिं च करोति सेयं ' देवगणा क्रिया' इत्युच्यते । ॥ अथ सा होलिका पतिनिकेतने सुखसमाधिपूर्वकं चिरमुषित्वा पितृवेश्म समासदत् । तत्रापि | जननीजनकप्रमुखानां जनानां प्रमोदातिशयं विदधती कतिपयदिनानि स्थित्वा पुनः स्वधवभवन in Education MIhelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy