SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ घबद्धं- ख्यानम्। २ ॥ साध्वित्यन्वमोदन्त । श्रेष्ठी च तस्यास्तदेवाभिधानं विधाय ज्योतिर्विद्भयो दक्षिणां दत्वा सत्कृत्य | च तान् विससर्ज । अथेयं होलिका पितृवेश्मनि सुखसमाधिपूर्वकं द्वितीयोद्गतचन्द्रकलेव प्रतिदिनं | ववृधे । यदा द्वादशवर्षा संजाता, तदा विद्याऽभ्यसनाय तां पिता पाठशालायां गुरुसविधे प्राहिणोत् । तत्र पूर्वोपार्जितभाग्योदयादेव स्त्रीणां चतुष्पष्टिकलासु स्तोककालेन निपुणाऽभूत् । अथ माता| पितरौ रूपयौवनसम्पन्नां नानाकलालङ्कृतां सुशीलामिमां कन्यां कस्मै प्रयच्छेवेति चिन्तासन्ताप| सन्तप्तावभूताम् । यदि चास्या अनुरूपो वरो लप्स्यते तदैवेयं सुखमवाप्स्यति नान्यथा, इत्येवं विचार्य प्रतिनगरं तादृशं वरमन्वेष्टुं कृतिनो जनान् प्रेषयत् । दैवयोगात् तस्मिन्नेव पत्तने देवदत्ता| भिधानस्य श्रेष्ठिश्रेष्ठस्यासाधारणधामा जसदेवनामा सुतोऽधिगतः तं लावण्यशालिनं द्वासप्ततिना कलामालिनं परममनोहारिणं विदित्वा होलिकाविवाहं तेन सहाकरोत् । योग्यवरलाभान्महोत्सवसall म्पन्नः श्रीपरिपूर्णभवनः श्रेष्ठी तस्मै वराय प्रचुरतरं पारिवहमदात् । अथ जसदेवो निजसौभाग्यवशात् तत्र परमसुन्दरी होलिका प्रशस्ततराणि नानाविधानि वस्तूनि यथेष्टधनानि च समवाप्य महोदारं निजागारं समागत्य कामकलाकुशलया तया होलिकया सह देवगणां क्रियां निवर्त्य ॥२॥ Intematon For Personal & Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy