________________
G
134 प्त्या महान्तं परोपकारं मन्येऽहं । यतो नास्ति मे जीवनशोकः, किंचेयमेव चिन्ता, यदहं कृतप्र- चरित्रम् । तिज्ञापूर्तिमकृत्वैव मृतिं लप्स्ये । श्रुत्वैवं व्याकुलीभवन् स राक्षसः सकोपमाह-रे मानव ! कैतादृशी कृता प्रतिज्ञा त्वया, यन्मरणकाले प्रतिज्ञा प्रतिज्ञेति वदसि ? उत्तिष्ठ कृतप्रतिज्ञां मां द्रुतं | ब्रूहि । तत्पूर्तये साहाय्यन्तेऽहं करिष्यामि । इति राक्षसीयमाशायुतं वचः समाकर्ण्य धैर्यश्चावल
म्ब्य प्रहृष्टचेतसाऽहमब्रवम्-अयि महाभाग ! विशालाधिपतिमदनवेगनाम्नो राज्ञोऽहं समाज्ञाङ्कितः सेवकः, स च निजविवाहमहोत्सवं कर्त्तमुद्यतो वर्त्तते । तदीयाज्ञां स्वीकृत्य लङ्काधिपतिवि- 10 भीषणाय निमंत्रणं दातुं गम्यते मया तत्र, कठिनातिकठिनं चैतत्कार्यं निखिलसभामध्ये मयैव । स्वीकृतम् । कर्म चैतद्यदि मत्तो न स्यात्तर्हि प्रतिज्ञाभङ्गी भविष्यामि । श्रुत्वैवं स राक्षसश्चक्षुषी | रक्तीकुर्वन् मामाह-रे मानव ! एतत्प्रतिज्ञासंसाधनाय नैवाऽस्ति कस्यापि सुलभा शक्तिः । न चैव महासागरसन्तरणाय मानवानां कर्म, तथापि तेऽहं काञ्चनैकां सुयुक्तिं वच्म्येव, यतो मामकं कायें | सिद्धयेत्तावकं च । आकण्य चाञ्जलिं बद्ध्वाहमभणम्-भोः ! द्रागेव मां तां युक्तिं वक्तुकामो भवान् भवतु । मत्स्वामिकार्यसंसाधनाय यदेव त्वं वक्ष्यसि तदेवाहं कर्तुमुद्यतो वर्ते । श्रुत्वैव स ला॥ ४५ ॥
in
International
For Personal Private Use Only
www.jainelibrary.org