SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ G 134 प्त्या महान्तं परोपकारं मन्येऽहं । यतो नास्ति मे जीवनशोकः, किंचेयमेव चिन्ता, यदहं कृतप्र- चरित्रम् । तिज्ञापूर्तिमकृत्वैव मृतिं लप्स्ये । श्रुत्वैवं व्याकुलीभवन् स राक्षसः सकोपमाह-रे मानव ! कैतादृशी कृता प्रतिज्ञा त्वया, यन्मरणकाले प्रतिज्ञा प्रतिज्ञेति वदसि ? उत्तिष्ठ कृतप्रतिज्ञां मां द्रुतं | ब्रूहि । तत्पूर्तये साहाय्यन्तेऽहं करिष्यामि । इति राक्षसीयमाशायुतं वचः समाकर्ण्य धैर्यश्चावल म्ब्य प्रहृष्टचेतसाऽहमब्रवम्-अयि महाभाग ! विशालाधिपतिमदनवेगनाम्नो राज्ञोऽहं समाज्ञाङ्कितः सेवकः, स च निजविवाहमहोत्सवं कर्त्तमुद्यतो वर्त्तते । तदीयाज्ञां स्वीकृत्य लङ्काधिपतिवि- 10 भीषणाय निमंत्रणं दातुं गम्यते मया तत्र, कठिनातिकठिनं चैतत्कार्यं निखिलसभामध्ये मयैव । स्वीकृतम् । कर्म चैतद्यदि मत्तो न स्यात्तर्हि प्रतिज्ञाभङ्गी भविष्यामि । श्रुत्वैवं स राक्षसश्चक्षुषी | रक्तीकुर्वन् मामाह-रे मानव ! एतत्प्रतिज्ञासंसाधनाय नैवाऽस्ति कस्यापि सुलभा शक्तिः । न चैव महासागरसन्तरणाय मानवानां कर्म, तथापि तेऽहं काञ्चनैकां सुयुक्तिं वच्म्येव, यतो मामकं कायें | सिद्धयेत्तावकं च । आकण्य चाञ्जलिं बद्ध्वाहमभणम्-भोः ! द्रागेव मां तां युक्तिं वक्तुकामो भवान् भवतु । मत्स्वामिकार्यसंसाधनाय यदेव त्वं वक्ष्यसि तदेवाहं कर्तुमुद्यतो वर्ते । श्रुत्वैव स ला॥ ४५ ॥ in International For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy