SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 133 स्वानन्ददिनमतः राजभवनं सशृङ्गारं सत्तो रणमलङ्कुरुत, गजाश्वरथप्रभृतिबहुविध निखिलवाहनादिकं सज्जीकृत्य संस्थापयत, राजपुरुषांश्च समाज्ञापयत । यत् समेऽपि निजदिव्यवासोभूषणानि परिधाय राजद्वारमागच्छेयुः । अद्य मयि परमप्रेमवान् हितेच्छुर्हरिबलः समर्पितं कार्यं सत्वरमेव विधाये - हायातः । अद्य मे चिरकालीनो विनष्टो वियोगः । अतः समेऽपि सुसजिताः शीघ्रं समायान्तु, नगरप्रवेशं च कारयन्तु तस्य वै 1 अथ राजाज्ञां श्रुत्वा वाद्यादिकं समवादयत् । नगरे सर्वत्रानन्दादिकं समजायत । नगरप्रवेशार्थं स हरिबलो भूपतिना विशालाधिपतिना सत्रा राजभवनमागात् । राजापि तं ससन्मानं योग्यासनं समारोप्य कुशलादिकं संपृच्छय कथं साधितं कार्यं त्वया तत्र गत्वा ? श्रुत्वा च सोऽप्याह-राजन् ! लङ्काधिपतिविभीषणं समाकारयितुं गृहान्निर्गत्य कठिनातिकठिनं मार्गं समुल्लंघयन् वार्धितीरं गतवान् । तत्र गत्वाऽम्भोधिगांभीर्यं विलोक्य व्यचिन्तयम् - कथं मया लङ्कापुरी गन्तव्या ? ततो बहुविचारान्ते खादामि खादामि इति वचो ब्रुवन्तं समीपमायान्तं विचित्रचित्रविक लमूर्ति भयङ्कराकृतिं कंचन रात्रिचरं विलोक्य तमभ्यधाम - अहो ! महाबल ! मत्खादनात्त्वत्तृ For Personal & Private Use Only mational jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy