SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 132 बर्द्धनसार ४४॥ 'यत्र हि वास्तविकं प्रेम तत्र किं नामगोप्यं भवति पुंसां सुविदुषाम् ।' अथ कुसुमश्रीसुलग्नवृत्तान्त- चरित्रम्। माकर्ण्य तया वसन्तश्रिया निजभा सत्राऽऽरामेऽब्राजि तत्र बहु हर्ष मन्यमाना तया सह मुहुर्मुहुर्मिलित्वा द्वेअपि सहैव सन्तिष्ठमाने सुखमनुभवतः स्म । यथेदानीन्तनो जनो जायाद्वयं परिणीय स्वात्मानं दुःखवन्तं विदधाति न तथा हरिवलो जातः । तदीये द्वेऽपि प्रेमपूर्वकं सन्तोषा-11 मिलित्वा निजभर्तृसेवातत्परे जाते । क्वेदानीन्तना मूर्खाः स्त्रियः, क्व च तदानीन्तना विदुष्यः । ततो हरिबलो निजप्रियाद्वयसहितो गृहं गच्छन् राज्ञः सूचनार्थं कंचन जनं प्रेषीत् । तदीयं समागमनसमाचारं श्रुत्वैव स दुर्मतिर्हताशो बोभवामास । “ पूर्वं हि तं समाचारमनाहतवान् पश्चाच्च स्वीयभाग्यं विगर्हयन्नद्य नष्टा मे मुखप्रसादच्छविः। अद्य हि परिपक्का मे अप्याशा भूमौ प्रविष्टाः। धनिनो यथा धनं धूलिलिप्तं भवेत्तथा मे सर्वाण्येव परिश्रमादीनि वैयर्थ्यमापुः। प्रावृषि यथाऽभ्रागमो वायुवशात् क्षणे एव वैनाश्यमाप्नोति तथाद्य मे निखिला मनोरथाः क्षणे एव वैनाश्यमापुः । किं बहुनाद्य भाग्यदेवी मां मेरुं समारोप्य नीचैरेवापातयत् । अद्य मे विनष्टं सौख्यादि ।" इत्थं बहुशो विचिन्त्य पश्चात् समेषामन्येषां विनिश्चयार्थं स्वस्थीभूय परिजनानाह-यद् भोः! अद्य मे ॥४४॥ S For Personal Private Use Only घ w w.jainelibrary.org nternational
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy