________________
13.1
तमेव शरणं कुतो न व्रजामि, इदानीं चात्मघातमन्तरा न काचिदन्या कृतिर्वरीयसीति । अथेदानीमेव हरिबलोऽपि नवीनोद्वाहितां निजस्त्रियं कुसुमश्रियमुद्याने संस्थाप्य निजगृहस्वरूपावलोकनाय शनैरागत्य क्वचिद्रहस्येवावातिष्ठत । तत्र सत्या निजस्त्रियाः साहसं दृष्ट्वा सहसैवावादीत्-अहो ! नैतदुचितमात्मघातादिकुर्वत्या भवत्याः। न द्वितीयमात्मघातादन्याय्यम् । इति वाचमभ्यदधद्धरिबलेन वसन्तश्रियाः समक्षे समागत्य समुपस्थितेनाऽभावि, दृष्दैवामुं सगद्गद्वाचा वसन्तश्रीः | प्रावोचत्-अहो कोऽयं मे स्वामिनाथः किं, प्रियप्राणनाथ ! स कुशली भवकान् । अथ सोऽप्याहप्रिये ! अस्मि तावत्कुशली, किं च पतिप्राणायै सत्यै स्त्रियै किमर्थमदोऽयोग्याचरणम् । इति भर्तृ-14 वचः समाकर्ण्य साह-स्वामिन् ! अयोग्यं विद्धि योग्यं वा, यदद्य भावतं दर्शनं न स्यान्चेत् श्वो वसन्तश्रीन स्यात् । हरिबलोऽगादीत्-यद्वेम्यहं तावकं सम्यक् सतीत्वं, दुष्टोऽसौ भूपतिस्त्वयि दुष्कर्मकर्तुमुद्यतः 'अधर्म कुर्वाणोऽधर्मफलं सहसैव लप्स्यते ।'
अथ निजस्वामिनं विलोक्यैव सरोमाञ्चा वसन्तश्रीस्तदीयं कुशलादिकं पृष्ट्वा राइयोऽखिल वृत्तान्तमचकथत् । अथ हरिबलो निजगृहे समागत्य तत्रत्यमखिलवृत्तान्तं वसन्तश्रियं समवोचत् ।
JainEduc
a
tional
For Personal Private Use Only
Delibrary.org