________________
130
नसार
कथमहमिदमनुचितं कुर्याम् ' श्वः प्रत्यूष एव स श्वपचो दुष्टमतिर्भूपतिः कामाग्नौ होतुं श्रेष्ट- चरित्रम् । N) मच्छीलरत्नं समायास्यत्येव । अहो ! धिङ्मां मद्रूपं मद्यौवनश्च। यानि मदीयोत्तमशीलसंहाराय a दुर्मति राजानं प्रेरयन्ति । अतो शीलरत्नरक्षणार्थं यत्नो विधेयो मयकेति मे मुख्यो धर्मः । इति निश्चिन्वानापि सा व्यचिन्तयत्-यत्कथं शीलरत्नो रक्षितव्योऽबलया मया सबलात्पुंसः। स मदनवेग आगामिदिने प्रत्यूष एव सबलसैन्यमादाय मदीयाङ्गणं समागत्य मां वक्ष्यति समेहि मे गृहं यद्यहं वक्ष्यामि नैव संगस्ये चेत् किं भवेत् ? तदानीं स दुर्मती राजा निजभटान् समाज्ञापयिष्यति यद् गृह्णीतेमां बनीतेमां बध्वा च मच्छयनागारं प्रापयतेमाम् । अहो ! तदवसरे निजप्राणपतिमन्तरा को मां संरक्षेत् । शयनागारं समानीय मां स दुर्मतिः किं कुर्यात् हन्यादेव वा । जीवत्याश्च मे शीलवतं मोषिष्यति । अहो ! पापिन्याश्च मे किमर्थं जन्माभवत् । प्रादुर्भवन्त्याश्च | मे किमर्थमेतावतीसुरूपता जाता । इदानीं पर्यन्तमपि दुःखमनुभवन्त्या मे शान्तये काचनौषधिर्न
जाता, अतएवाहं सुशोचामि निराधारा सती। स्त्रिया यदि काचित्प्रजा शीलवतं परिखण्डये ॥ तर्हि राज्ञा शरणं भवेत् । यदि च राजैवैतादृशो भवेत्तदा कृतान्तमेव शरणं भवेत् । अतोऽहं |॥ ४३ ।।
Jaini
n ternational
For Personal & Private Use Only
www.jainelibrary.org