________________
129
यतस्ते भाविकालो वरीयान् स्यात्तद्विधेहि । अथ कठिनविपत्तिवार्द्धा निमज्जन्ती, साऽनाथाऽबला, परदेशगतं, निजपतिमनुशोचन्ती, दुष्टभूपतितो मे शीलरक्षणं कथं भवेदिति बहुशो विचिन्तयन्ती, किंचिदूर्ध्वमुखीभूय राजानं विलोकयन्ती, मन्दं मन्दं जहास । हसन्तीं तां विलोक्यैव सोऽपि विसितमना बभूव - अहो चिरकालाद्वारिताया मे वाञ्छाया अद्य पूर्त्तिर्जातेत्याशया धीरो भवन्नाहयत्स्त्रीजातिः स्वभावादेव चञ्चला भवतीति निगद्य भद्रे ! मद्रथे समारुह्यतामिति यावत्तत्करं ग्रहीतुं समुत्तिष्ठति तावत्स्नेहवचोभिरभिधत्ते स्म सा - राजन् ! व्याकुली मा भूयाः । इदानीं ब्रज, नाहमेतादृशी किलाऽधमा नारी या स्वीयं शीलं जहामि सहसैव । अद्यारभ्य मासं यावन्मभर्तृकु शलादिकं न लप्स्ये त्वामवश्यं प्राप्स्यामि । ततः कामातुरः सोऽपि व्यचिन्तयत् - कुत्राऽस्या भर्तृलब्धिः सतु कदैव मृतो भवेत् ? कुतः समागमनं तस्य मासैकावधिस्तु सहसैवान्तमेष्यति । मासान्ते चागमनाय वचनं प्रददात्येव । तदर्थमुद्यमादेवैयर्थ्यमेव वाढमिति समभिदधानो निजकार्यसिद्धिप्रहृष्टः सहर्षं निजगृहं समागात् । अथ कामान्धमदनवेगवेगितनृपतिगमनान्ते निजचित्तव्याप्तचिन्तातुरा सा कियन्तं कालं समापत् । मासैकावधेः पूर्तिर्जातेति विचिन्त्य ' अहो !
For Personal & Private Use Only
elibrary.org