SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । बर्द्धसार २ ॥ वसन्ततॊ मादृशेनैव पुंसा शोभते । अहो ! निन्दनीयः खलु विधिः यत्प्रतिकार्येषु तस्य मौर्ण्यमेव दरीदृश्यते, कियती चास्याऽपूर्णता । नो चेन्निर्धनायायोग्याय हरिबलाय रत्नमयीं वसन्तश्रियं समर्पयेत् । रत्नादिकं किं लोहपात्रे सुशोभते । रत्नस्थानं तु स्वर्णादिकमेव । एवं चेत्कश्चिन् मूर्यो जनो रत्नादि लोहपात्रादिषु पातयेत् , सुज्ञो जनस्ततस्तन्निस्सार्य सुस्थान एव योजयेत् । अथ निजभर्तीयोग्यगर्हामसहमाना सा वसन्तश्रीरूर्ध्वमुखी मुखे लोहरक्ततां प्रदर्शयन्ती को| पाध्धृदयं कम्पयन्ती स्वगात्रं चोष्णं कुर्वती समभ्यधात्-राजन् ! वचनान्तरं विवक्षुश्चेद् ब्रूहि । किन्तु त्वां सत्यं ब्रवीमि-इत आरभ्य मामको भर्ता मत्पाऽनिन्दनीयस्त्वया, कीदृशोऽपि स्यात् | सुरूपो वा कुरूपो वा गुणी स्यान्निर्गुणी वा, धनी वा स्यान्निर्धनी वा । क्षणभकुरेऽस्मिञ्जगतितले मदीयं स एव सर्वस्वम् । राजाह-सर्वस्वं चेत्ते कुत्रास्ते । स तु कदैव मरणं प्राप्तवान् । यच्च जगतो बहिर्वस्तु, यच्चाऽसंभवं तत्सर्वं नैष्फल्यमेव व्रजति। 'विज्ञो जनो गतवस्तु नैव शोचति । अतो मिथ्यावचोऽपहाय मच्छरणमेहि, कर्त्तव्यं चैतत्तावकीनम् । नो चेच्छिरो धृत्वा सहसैव मे भटास्त्वां मच्छयनागारं प्रापयिष्यन्ति । न हि कोप्यत्र ते साहाय्यवान् । तत्र हि मदिच्छाधीना भविष्यसि । । ॥४२॥ Sain E t ernational For Personal & Privale Use Only w.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy