SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 127 । समाह्वयाम्यतो न कार्यो लम्बो विलम्बः शीघ्रमेव व्रज, गच्छामीति ओम् , नो वा किमप्युत्तरय, कीदृशी ते मतिः, न जानासि त्वं यत्त्वमिह केवला तावकीनश्च पतिः किं जीवन्निह समायास्यति? को नाम जानीयात्स महोदधौ पतन् कदा मृतः स्यात् , का नामैतादृशी ह्यनाथा स्यात् या पृ. थ्वीपतिं मादृशं पतिं प्राप्य सनाथा न स्यात्। न शोभते ते मृगनेत्रायाःशुभेऽस्मिन् कार्ये चारुचक्षुषोर्बाष्पधारणम् । त्वं मूर्खमेव यदलमतिशुचा व्रज व्रजेति जल्पसि ? बहिरास्ते च मे स्यन्दनः। अद्या- IM | रभ्य मच्छयनागारमागत्य मनोऽभिलषितां स्वेच्छां पूरय ?, सुखानि भुङक्ष्व दुःखाद्वा प्रपञ्चान्मया | | तावको भर्त्ता विदेशे प्रैषि, नोचेत्प्रत्यक्ष एव तव भर्तृशिशरश्छेदनं कारयेयं चेत्को नाम मामवरुन्धीत, त्वां च स्वशयनागारे संस्थापयेयम् । अतो मे वचोऽङ्गीकुर्याः। न हि कोऽपि लाभः खलु बहु- IN वादविवादे । त्वं च मतिमती तावकं च किं ध्येयं श्रेयस्तद्विचारय । स च हरिबलः किं कुर्यात् , तदपेक्षया रूपगुणादिभिन्यूनोऽहं किं ? मदनवेगवेगितानां कामिनीनां कामवेगशान्तावनभिज्ञोऽहं किम् ? त्वद्भञपेक्षया कामशास्त्राभ्यासेऽपक्वोऽहं किम् ?, अतः प्रिये ! मे मन्दिरमेहि । निखिलal मनोरथैः पूरितास्याः, मच्छयनागारशोभनां शोभा विलोक्यैव देवालयं तुच्छं मंस्यसे । वसन्तश्रीः Sain EducY atang Personal Private Use Only HDainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy