________________
127
। समाह्वयाम्यतो न कार्यो लम्बो विलम्बः शीघ्रमेव व्रज, गच्छामीति ओम् , नो वा किमप्युत्तरय,
कीदृशी ते मतिः, न जानासि त्वं यत्त्वमिह केवला तावकीनश्च पतिः किं जीवन्निह समायास्यति? को नाम जानीयात्स महोदधौ पतन् कदा मृतः स्यात् , का नामैतादृशी ह्यनाथा स्यात् या पृ. थ्वीपतिं मादृशं पतिं प्राप्य सनाथा न स्यात्। न शोभते ते मृगनेत्रायाःशुभेऽस्मिन् कार्ये चारुचक्षुषोर्बाष्पधारणम् । त्वं मूर्खमेव यदलमतिशुचा व्रज व्रजेति जल्पसि ? बहिरास्ते च मे स्यन्दनः। अद्या- IM | रभ्य मच्छयनागारमागत्य मनोऽभिलषितां स्वेच्छां पूरय ?, सुखानि भुङक्ष्व दुःखाद्वा प्रपञ्चान्मया | | तावको भर्त्ता विदेशे प्रैषि, नोचेत्प्रत्यक्ष एव तव भर्तृशिशरश्छेदनं कारयेयं चेत्को नाम मामवरुन्धीत, त्वां च स्वशयनागारे संस्थापयेयम् । अतो मे वचोऽङ्गीकुर्याः। न हि कोऽपि लाभः खलु बहु- IN वादविवादे । त्वं च मतिमती तावकं च किं ध्येयं श्रेयस्तद्विचारय । स च हरिबलः किं कुर्यात् , तदपेक्षया रूपगुणादिभिन्यूनोऽहं किं ? मदनवेगवेगितानां कामिनीनां कामवेगशान्तावनभिज्ञोऽहं किम् ? त्वद्भञपेक्षया कामशास्त्राभ्यासेऽपक्वोऽहं किम् ?, अतः प्रिये ! मे मन्दिरमेहि । निखिलal मनोरथैः पूरितास्याः, मच्छयनागारशोभनां शोभा विलोक्यैव देवालयं तुच्छं मंस्यसे । वसन्तश्रीः
Sain EducY
atang
Personal Private Use Only
HDainelibrary.org