________________
126
पतं.
चरित्रम् ।
सार ११॥
| तावत्त्वन्निदेशतो मदनवेगितोऽसौ क्षणमात्रमपि त्वत्तः पृथग्भूय नैव वितिष्ठेत ! इत्थं वाचं सम
Z सकुमतिं भूपतिं युगपत्करं प्रसारयन्तं विलोक्य विचारसागरमग्ना हारिबलीभार्या राजवशं गताऽधः पश्यन्ती किमपि विचारयन्ती निःश्वासान् त्यजन्ती दृग्भ्यां बाष्पं पातयन्ती सा वसन्तश्रीः सकरुणं विदेशिनं निजं प्रियपतिं ध्यायन्ती विचारयति-प्राणनाथ ! तव विदेशप्रेषणेऽसौ दुर्मतिर्नृपतिरेतद्दःखेसङ्केतमन्तरा किमन्यत्स्यात्, इह चाहं वैदेशिकी को मे चात्र साहाय्यवान् , भूपतिश्चायं दुर्मतिः, पतिरहितायां निर्बलायामबलायां मयि छद्मनाऽनुचितं कार्यश्चिकीर्षति, शीलञ्च मे चिखण्डपिषति मनागपि तस्य नाऽऽयाति ब्रीडा । अहो धिक् ते राज्यादिकं, किं मे प्रयोजनं तेभ्यः नेच्छामि ते पट्टराज्ञी भवितुं किं कर्त्तव्यानि मया ते रत्नवस्त्राभूषणस्वर्णानि। क्षणभङ्गुरेऽस्मिन् देहे न | मे वित्तेच्छा काचित्।अखण्डितं मे शीलं स्यादेतदेव हीच्छामि। रे पापात्मन् ! न सोढुं शक्ता ते दुर्वाचं |
स्वमार्गमवलम्बय ? यद्देह यथाऽऽयातस्तथा ब्रज ? यतोऽहं क्षत्रियवंशजा, खण्डयामि तेऽमुमखर्वगर्व IN क्षणादेव । किं च किं कुर्याम् , जीवहिंसया विभेमि इत्याकर्ण्य राजाऽवदत्-सर्वमदः साधु, किन्तु
मादृशो नरपतिस्त्वादृशीमबलां प्राप्य राज्यादिकं किं कुर्यात् । अत एव प्रिये प्रिये ! इति बहुशः
॥ ४ ॥
For Personal
Private Use Only