________________
स्मरामि, तावद्वितीयं विस्मरामि । अहर्निशं कालवत्प्रतिभाति । राजनगरमधिवसामि, उत वनं व्रजामि । यद्येव प्रव्रजामि, तद्देव त्वदाकृतिं पुरः पश्यामि । अयि वल्लभे ! नक्तं तव मनोहरं नाम संस्मरन् तल्पे इतस्ततो भवन् वसन्तश्रीः का वसन्तश्रीः अहो सैव वसन्तश्रीरित्यपर्णनिद्रात एव समत्थितः । इत्थं प्रतिक्षणे तावकं नाम संजपन सोन्मादो जातः निजराज्ञीनां हास्योऽभवम् । प्रिये ! स्थितेरस्यास्त्वमेव मुख्यबीजमतो मयि दया कार्या । कामज्वरातस्य मे रोगरोगितरोगिणो भिषग् भूत्वा प्रेमौषधि पाययित्वा जीवय माम् । तावकं शीतलाझं समालिङ्गय सशीतलमना भविष्यामि, अयि कमललोचने ! सकलसौन्दर्यसदने ! अद्य नौ नवो भाग्योदयस्त्वदधीनः । प्रिये ! तवैकमधुरवचोऽखिलं राज्यादिकं तावकीनमेव । मदी| यमनोहरहामूल्यवसनाऽलङ्कारबहुविधसुरत्नजटितस्वर्णहस्त्यश्वादिप्रधानराजपुरुषदासीदासभृत्या| दिनिखिलवस्तुजातं त्वदायत्तमेव । अद्यारभ्य तुभ्यं पट्टराज्ञीपदं समर्पयामि । यदि चैतादृशो विचारः स्यात्त्वयि । यदद्य प्रसन्नो मयि मामेवं वक्ति, पश्चाच्च किं ब्रूयादित्यादि शङ्कान्वितहृदया चेद्विनष्टशङ्का भव । किं वहुनाऽद्यारभ्य प्रतिज्ञायते खलु मया। यद्यावदस्मिन् देहे मम जीवनं
PSSSSSSSSS
Jain Educati
For Personal Private Use Only
elibrary.org.