SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ 135 राक्षसः प्रहर्षं प्रहर्षं क्षुधापिडितो बहुविधवैचित्र्यादि प्रदर्शयन् मामवोचत् - अयि मानुष ! यदि लङ्कां गन्तुमनाः, यदि विभीषणं निमंत्रयितुमनाः, यदि च निजस्वाम्याज्ञां विधातुमना स्तर्हि वनेSस्मिन् याsssसौ कठनिचयरचिताचिता, तस्यां पतित्वा द्रुतं म्रियस्व । मृतिमन्तरा लङ्कागमनाय मार्गान्तरं नास्ति । एवंभूतां राक्षसीयां युक्तिं श्रुत्वा पूर्वमनुत्सुकमना अभवम् । पश्चास्वामिकार्याय कृतघ्नोऽपि सेवको निजासूनपि समर्पयेत् । इति बहुधा विचिन्त्य प्रतिज्ञापूर्त्तये रोवचसि विश्वासं कुर्वाणो वह्नौ पतितुमभ्यधावम् । पतित्वा च तत्र भस्मीभूतोऽभवम् । ततः स राक्षसो मद्भस्मनिचयमेकीकृत्य विभीषणाय समर्पयत् । मवृत्तान्तमचकथत् स च मम स्वाम भक्तिं विलोक्य मयि समतुषत् मद्भस्मनिचयं सुधया निषिच्य मां सजीवमकार्षीत् । मदीयारूपं चावलोक्य मह्यं कन्यकामेकां समर्पयत् । कन्यया साकं बहुमूल्यबहुविधवासोभूषणहस्त्यश्वखपासुलाद्यनेकवस्तुनिचयं समर्पयत् । परन्तु तत्सर्वमपि गृहीत्वाऽत्रागमनाय काठिन्यं निश्चित्य नाङ्गीकृतं मया तद्वस्तुजातम् । दृष्द्दैवं तेनापि मदर्थमत्याग्रहं कृत्वा त्वमिहैवावतिष्ठस्वेति चाहमवाचिषि । भुज्यन्तां स्वचेष्टितानि ऋद्धिसमृद्ध्यादीनि वस्तूनि, रम्यतां च नवयौवनाभीरूपवती " For Personal & Private Use Only Jain Education International ainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy