SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 136 चरित्रम्। १६॥ बर्द्ध- भिः स्त्रीभिः । श्रुत्वैवं मयाऽभिहितं-न भवितव्यं मया चेत्थम् । यतोऽहं विशालाधिपतिमदनवेगासार Nज्ञया त्वनिमंत्रणार्थमिहायातः। भूपतिश्च महान्तं निजविवाहमहोत्सवं कर्तुमुद्यतो वर्त्तते, अतो माय कृपां कृत्वागन्तव्यं त्वया तत्र । स च विभीषणः किञ्चिद्विचार्य मां व्याहार्षीत्-हरिबल ! मामकी पुत्रीं स्वीकृत्य पूर्वं त्वया गन्तव्यम् विवाहदिनद्वयशेषे चाहमागमिष्यामि । इत्थं तदीयं निश्चितं वचः श्रुत्वाहमिहायातः । प्रत्ययार्थं च निजचन्द्रहासनामकं स्वीयखझं मह्यं समर्पयत् सस्त्रि| यं मां समुत्थाप्याचिरादेवेहानीतवान् । राजन् ! तव दुष्करकार्यसंसाधनाय मया चैतादृशी व्यथा | | सोढा । यतोऽहं स्वामिसेवां स्वीयं मुख्यं सुकृतं वेद्मि। अथ पुण्यप्रतापतो हारिबलीयां कृत्रिमा वाचमृतां मन्यमानो मूढो नृपती राजसभा चाश्चर्यKa त्वमाप्य प्रशस्य च तं समब्रुवन्। अहो ! महाप्रतापशीलोऽयं हरिबलो नो चेदस्मात्कठिनकार्यात् कथंकारं | पुनः समायातु । इत्थं गच्छत्सु कतिचिदिवसेषु तदीयवाक्ये संशयमापन्नो मुख्यो राजमंत्री व्यचिन्तयत्-यत्केनापि सत्रा छद्मकृत्वाऽऽनीतेऽनेनामू खड्गकन्यके । अथ तस्मिन् हरिबले सोऽमर्षाग्निना दन्दह्यमानो राजसभायां तदीयां बहुख्यातिं श्रावं श्रावं भृशमताप्सीच्च। तदनु राज्ञस्तस्मिन्नधिकस्नेह- I ॥ ४६॥ Sain international For Personal & Private Use Only Drww.jainelibrary.org,
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy