________________
136
चरित्रम्।
१६॥
बर्द्ध- भिः स्त्रीभिः । श्रुत्वैवं मयाऽभिहितं-न भवितव्यं मया चेत्थम् । यतोऽहं विशालाधिपतिमदनवेगासार Nज्ञया त्वनिमंत्रणार्थमिहायातः। भूपतिश्च महान्तं निजविवाहमहोत्सवं कर्तुमुद्यतो वर्त्तते, अतो
माय कृपां कृत्वागन्तव्यं त्वया तत्र । स च विभीषणः किञ्चिद्विचार्य मां व्याहार्षीत्-हरिबल ! मामकी पुत्रीं स्वीकृत्य पूर्वं त्वया गन्तव्यम् विवाहदिनद्वयशेषे चाहमागमिष्यामि । इत्थं तदीयं निश्चितं वचः श्रुत्वाहमिहायातः । प्रत्ययार्थं च निजचन्द्रहासनामकं स्वीयखझं मह्यं समर्पयत् सस्त्रि| यं मां समुत्थाप्याचिरादेवेहानीतवान् । राजन् ! तव दुष्करकार्यसंसाधनाय मया चैतादृशी व्यथा | | सोढा । यतोऽहं स्वामिसेवां स्वीयं मुख्यं सुकृतं वेद्मि।
अथ पुण्यप्रतापतो हारिबलीयां कृत्रिमा वाचमृतां मन्यमानो मूढो नृपती राजसभा चाश्चर्यKa त्वमाप्य प्रशस्य च तं समब्रुवन्। अहो ! महाप्रतापशीलोऽयं हरिबलो नो चेदस्मात्कठिनकार्यात् कथंकारं |
पुनः समायातु । इत्थं गच्छत्सु कतिचिदिवसेषु तदीयवाक्ये संशयमापन्नो मुख्यो राजमंत्री व्यचिन्तयत्-यत्केनापि सत्रा छद्मकृत्वाऽऽनीतेऽनेनामू खड्गकन्यके । अथ तस्मिन् हरिबले सोऽमर्षाग्निना दन्दह्यमानो राजसभायां तदीयां बहुख्यातिं श्रावं श्रावं भृशमताप्सीच्च। तदनु राज्ञस्तस्मिन्नधिकस्नेह- I
॥ ४६॥
Sain
international
For Personal & Private Use Only
Drww.jainelibrary.org,