________________
149
नाम तदीयो लेखकः यो जगत्त्रयजननमरणादिसुकर्मकुकर्मादि विलिखति । इत्येतादृशो यमस्तुष्टीभूतः कल्पवृक्ष इव भाति । रुष्टेऽपि यमे यम एव भवति सः।
इत्थं यमीयां समृद्धिं विलोक्याहं स्वात्मानं कृतार्थ मेने । तथा लोकोऽयं वदति यजन्म समुपलभ्य बहु जीवेद्बहु च पश्येत् । अथेत्थं गते कियति काले धर्मराजाय भवत्प्रदत्तं निमंत्रणं मया तस्मै निवेदितम् । तदानीं स मयि सन्तुष्य मामवोचत्-यद्राज्ञो वै मत्कृते महानादरः । अतोऽहमवश्यं समायिष्ये, किं च तद्विषये किमपि तमहं वक्ष्यामि-यदि तावको राजा मम सुहतु मयि प्रेमवान् स्नेहादिकं करोति, तर्हि वारमेकं सकुटुम्बः सामात्यः ससेनो मदन्तिके समायातु | | तदाहन्तमनुभजे, इत्यहं विमृशामि । इत्थं स मां बहुशोऽभ्यधात्-हरिबल ! त्वं तत्र गत्वाऽवश्यं ।
तं मदन्तिके कदाचित्प्रेषय, इत्येवं मां बहुशोऽभिधाय मह्यं दिव्यालङ्कारवासोभूषणानि प्रदाय ॐ दिव्यरूपधरा देवाङ्गनाः परिणेतुं समर्पयत् । किं चाहं तानोररीकृतवान् । ततः प्रान्ते मामाह-ए
ता हि काञ्चनकान्तीस्त्ववश्यं स्वीकुरु? येनाहं कृतार्थो भवामि । तदाहं तमब्रुवम्-नाहमेकामपीच्छामि, मम स्वामिविवाहसम्बन्धिकार्यमत एवेहाहमागच्छं त्वदाकरणाय । देयाश्चमा भवकता म.
Sain Educati
o
nal
For Personal Private Use Only
Thelibrary.org