________________
151
बभूवुः । राज्ञश्च पूर्वं या वै दन्तपतनपीडा सेदानीं धर्मराजान्तिकेऽहं निखिलाः समृद्धीः प्राप्स्यामितीच्छया सर्वापि वैनाश्यं लेभे । धर्मराजगृहगमनाय चातीव सोत्साहमना बभूव । तदपेक्षया च पूर्वममात्यः सज्जितो जातः तथा तस्यापेक्षया पूर्वं सदस्या नागरीकाश्च सज्जिता बभूवुः । किं च समेषामपि देवप्रभावतः क्रमशो बुद्धिर्वैनाश्यमत्रजत् । कियन्तो देवबालाः परिणेतुं, कियन्तो दिव्यद्रव्याभरणानि विलोकितुं, कियन्तश्च कौतुकान्यवलोकितुमेव नृपतिना सत्रा नगराद्वहिर्निर्जमुः । अहो ! कीदृशं लोभराज्यादिकम् । इत्येवं विचारनिश्चितेषु तेषु राजानुमत्या नगराद्वहिर्बहुभीत्युत्पादिकां महतीं चितां विरचितामग्निना योजयामासुः । समृद्ध्यादिप्राप्तिस्तु कुत्रैव किं च भस्मीभवनमेव निश्चितम् । तथापि ते सावधानचेतसोत्सुकमनसो जज्ञिरे । अहो अक्षरशः सत्यमेव यत्कीदृक्षं नाम संसारस्वरूपम् । तथाहि
जादव्वे होइ मई, हवा तरूणीसु रुवमईसु । ता जड़ जिणवर धम्मे, करमलयजं ठिया सिद्धि ॥ १ ॥ अथ सर्वऽपि ते पीतमद्या इव संसारसुखाभिलाषुका लोभवशङ्गता नववचांसि कुर्वन्तो जगर्जुः, कियन्तो नर्त्तनं, कियन्तो गानं कियन्तश्च हास्यं कर्त्तुमारेभिरे । वह्नौ पतनायोत्सुका बभूवुः ।
For Personal & Private Use Only
national
jainelibrary.org