SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ बर्द्ध नसार ५४ ॥ 152 इत्येवं दृष्ट्वा दयार्द्रचेताः स हरिबलस्तदानीं व्यचिन्तयत् — यदपराधं चामुं कृत्वा निरयेकां गतिं sasyar को विधेयो ममोपायः । यस्मात्सर्वे नरा निवर्त्तेरन् । पतेश्च्च केवलं वह्नौ मुख्योऽमात्यः । इत्येवं विचारयति हरिबले झटित्येव यमयाष्टिको दूतो हरिबलानाह - भोः यावन्तो वै यूयं वह्निपतनायोत्सुका वर्त्तध्ये, ते समेऽपि यूयं किञ्चिदवतिष्ठध्वम् । मद्वचांसि च प्रतिशृणुध्वम् - यद् यूयं फलाभिलाषुकास्तर्हि व्याकुलचेतसो मा भवत । यतो मे स्वामी यमो विषमः, अतो यो राजातिमानितो भवेत्स एव पूर्वं मया सार्धं वह्नौ पतेत् । ततो राजा, ततः प्रजादीत्थं दैविकं वचः शृण्वन् स मुख्योऽमात्यो मनस्येवं विचिन्तयति स्म - यदहं पूर्वगच्छानि तर्हि स्वमनोऽभीष्टफलं प्राप्नुयाम्, इत्येवं विचार्य सोऽमात्यो राजानमाह - स्वामिन्! यदि भवतामाज्ञा स्यात्तर्हि पूर्वतोऽहं गच्छेयं, राजाप्याह-यथेच्छं व्रज, इत्थं राजाज्ञया यथा कश्चित्स्वर्गसुखभोगाय गच्छेत्तथा स्वात्मानं कृतकृत्यं मन्यमानो मनसि हर्षं दधत् सोऽमात्यो यमयाष्टिकेन सह प्रज्वलितकृशानौ झम्पापातमकरोदेव भस्मीभूतः । इत्थं पापबुद्धिरमात्यो निजमनोरथाय यमराजगृहं सकष्टं जगाम तस्मिन् स राजा सरागः शलभ इव पावकपतनायोद्युतो बभूव । तदानीमेव जातकरुणो हरिबलो nternational For Personal & Private Use Only चरित्रम् | ।। ५४ ।। www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy