SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ बद्ध कुमार ० ॥ 164 मीयते, यत्प्रभावात्तत्क्षणमेवाऽयमारामः पुनर्नवतामियाय । किञ्चैतत्प्रभावादेव कूपादुपर्यागत्य प्रणालीषु जलानि प्रसस्रुः । गृहीतेचा मुष्मिन् पाणिभ्यां तानि पयांसि मनाग् न्यग्बभूवुः । किमेनं काचिन्मुग्धा सुरसुन्दरीन्द्रनीलमणिङ्काचधियाऽजहात् । किमथवा शोणपाषाणशङ्कया माणिक्य मौज्झत् । प्रियतमे ! तव पुत्रो नास्ति, अतस्त्वमेतमर्भकं महाद्भुतं गृहाण, तदनु सापि सहर्षं तं बालं समादाय स्वं पुत्रवतीममन्यत । पश्चात्सतनयां तां प्रेयसीं तत्रैव लतावेश्मनि स्थापयामास स मालाकारः । ततस्तदैवाऽप्रसूताया अपि तस्यास्तदनुभावतः स्तन्यमजायत । यद्वा- पुण्यशालिनां पुंसां क्षेत्रेऽपि खलं जायते । अथ मालाकारः स्वकीयसमस्तज्ञातिवर्गे पुत्रजन्मव्याख्याय तदीयम - हिमानं मलयोद्यानसम्पदा व्याचीकरञ्च । महता महेन षष्टिजागरणादींश्च विधाय तदीयमनुगतामघट इति नामधेयमकार्षीत् । ततस्तेन निजावासे समानीतः सोऽर्भकस्ताभ्यां महीयसा मुदापालितो लालितश्च त्रिवर्षीयप्रायोऽभूत् । अथैकदा कृती स मालिकः पत्न्या उपरोधेन राज्ञः प्रीतिकृते काञ्चनात्यद्भुतां चेतोहरीं पुष्पमालां विरचितवान् । अत्युत्तमां तां च स्वप्रेयसीं तदैव मुदाऽदीदृशच्च । यतोऽमी मालिकनर्तकरजकप्रमुखाः कामिनीप्रधाना एव प्रायशो जायन्ते । अथ nternational For Personal & Private Use Only चरित्रम् । ॥ ६० ॥ www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy