________________
165
| प्रमोदभरं विभ्रती मालिनी तद्दाम पुष्पकरण्डके निधाय दास्यै समर्प्य स्वयञ्चनिजकठ्यां सुतं । || समारोप्य नृपावासमागतवती । राजसभामागता ससुता सा मालिनी राजानं नमस्कृत्य दक्षिण-d हस्तेन तां स्रजं दधाना देव ! गृह्यतामिदं दामेति राजानं स्पष्टमाचष्ट सा, तत्रावसरे तां माला महीशो मनस्तुरङ्गस्य सहसा नियन्त्रणो विधिरचितां वल्गामिव कामचापस्य ज्यामिव प्रमोदभरस्याऽश्रुलहरीमिव ऋतुराजस्य श्रिया दोलामिव, मृग्या बन्धनाय जालमिवचिरमपश्यत् । कस्य कीदृशी दृष्टिरेतस्यां मालायामर्भकेचामुष्मिन्निति बुभुत्सोर्महीभर्तुस्तदानीं चपलतरादृष्टिः समस्तसभ्यजनोपरिपपात, यतः-राज्ञा भोगिनेवैकदृष्टिना नैव भूयते । पश्यत्सु च सर्वेषु तां मालां तस्य पुरोधसे । दृगमनागपि मालोपरिनापतत् । किञ्च तत्र दामनि भृङ्गीष्विव समेषां सभ्यानां दृष्टिषु निविष्टास्वपि गाढसंमर्दभीतेव पुरोहितस्य दृष्टि ऽगात् । किन्तु तत्राऽर्भकोपर्येव नितरां पपात । तदालोकमानो राजा मनसि दध्यौ, अहो, सर्वे जना एतां मनोरमां सजमेव सहर्ष पश्यन्ति, एष पुनरमुं शिशुमेव ग्रैवेयकविभूषितं गाढं परिपश्यति निरपत्यवत् , कथमिति । तत्रावसरे स राजा IN तां मालामादाय सहर्ष पर्यधत्त, अदीदपञ्च तस्यै मालिन्यै षोडशोत्तरसहस्रदीनारान् अतिप्रीत्या ।
Sain Educatio
n
al
For Personal Private Use Only
Hinelibrary.org