________________
बिद्धटकुमार ६१॥
166 विसृष्टायां सभायां पुरोहितं जगौ-पुरोहित ! सत्यं कथय । यत्ते दृष्टिर्मालां विहाय मालिनीतनये चरित्र भूयसी रतिं कथं कृतवतीति । सोऽजल्पत्-राजन् ! स भूपालो भविष्यति, अतस्तदीयसेवाहेवाकिनी मदीयादृष्टिरपरं सर्वं विसस्मार, केवलं तमेव सस्मार। इति नैमित्तिकवचः श्रवणान्मुखवातादादर्श इव विच्छायतां प्रपन्नो महीजानि स्तत्कालमेव चिन्तासन्तापभागजायत । अहो ! यस्य दासीतनयस्य पुरोहितोऽयं भाविराज्यमचीकथरपुरा, सोऽभकस्तु मया प्रा. गेव मारितः, तदसौ कश्चिदपरः किमुत्थितः, स एव वा, सचेत् कथमनया तयोर्मातापित्रोः सकाशादलम्भिः, इत्थमनेकशङ्काकुलीभूतो नरपतिस्तदैव तौ पुरुषो रहस्याकार्य पप्रच्छ । भोः! तदा हन्तुमादिष्टौ युवां तमर्भकमवधिष्टाम् , अत्यजतां वा, अथवा कस्याश्चिद्योषितः करुणया समर्पितः किम् , एतत्सत्यमेव ब्रूताम् , यतो नेतार एकमपराधं चिरसेविनां क्षमन्ते, सेवन्ते च ते सकृदागसः पुरेव नेतारम् , इति मनागपि भीतिर्न कार्या, अहमस्मिन्नागसि वामभयं ददामि। इत्थं राज्ञो वचनं श्रुत्वा परस्परमुखावलोकनं विधाय विश्वस्तौ तौ यथार्थमेव तत्कथितवन्तौ। महाराज ! भवदादेशाद्वधाय गृहीतोऽपि सोऽर्भकः कार्यान्तरे निघृणाभ्यामप्यावाभ्यां नाऽघानि, किन्तु तदानीमुद्भूत-1॥६१ ॥
For Personal Private Use Only
wow.dainelibrary.org