________________
167
प्रभूत कारुण्यात् पुर्या एतस्या दक्षिणभागे विशीर्णवृक्षस्याऽऽरामस्यान्तः कस्यचिदेकस्य जीर्णतरस्य कूपस्य तटे जीवन्नेवाऽमोचि । परमेतत्सत्यं जानातु श्रीमान्, यत्तदैव सोर्भकः श्वापदादिसंयोगात्, कूपान्तः पतनेन वा कृतान्तस्याऽभूद्वैकालिकाऽशनमिति । तदाकर्ण्य क्षितिपतिस्ता पुमांसौ विससर्ज यदेतत्कृत्यमकरुणजन साध्यम् । तौ तु सकरुणौ । पुनस्तेनेदं तर्कितम्, देताभ्यामाराममध्ये समुज्झितः सोऽर्भको मालाकारेणाऽऽतोऽपरः कोपीति निश्चिकाय च निजमनस्येवं स वसुधाधवः
यत्खलूभयायत्तम्भवति कार्यं तदवश्यं विनश्यत्येव दुर्मन्त्रिराजवत् । इत्यवधार्य क्षोणीपतिः कमप्येकं पत्तिमाकार्य समादिष्टवानिति, भोः ! ममाऽय सभानिषहास्य या मालिनी पुष्पमालामर्पितवती, तस्याः सुतं निहत्य तदीयं ग्रैवेयकमानयतु भवान् । तत्पश्चान्नृपादिष्टः सपत्तिस्तदैव निर्घृणस्तुरगमारुह्य सायं तस्य मालिकस्य गृहाभ्याशमा गात् । तत्रागत्य च यदकारितेन तद्वर्ण्यते-देवराणकसामन्त ! अयि माण्डलिककुमारक ! हे तात ! भो मज्जीवित ! इत्यादि मनोल्लासनपुरस्सरं वलिं तत्र करवाणि, अवतारणे च ते कोटिदीपोत्सवान् विधाय त्वज्जीवदुःखमादाय
For Personal & Private Use Only
inelibrary.org