SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चरित्रम्। बद्धकुमार ६२॥ 168 व्रजामि चाऽहम् । इत्थं हर्षातिशयेन वातूला सा मालिनी, कदाचित्करतालिका दापयन्ती, कदाचिद्गायन्ती, कदाचिद्धासयन्ती, क्षणादात्मनः सुतं स्वेच्छया शिररयारोपयन्ती, क्षणं वक्षसि, क्षणं कटितटे, क्षणात्करकमलतले कुर्वती, तत्रागात्। अत्रावसरे कण्ठाभरणभूषितं तमर्भकं तस्याः करादाच्छिद्य सहसैव स राजपरुष आमिषं गृध्र इव गगने समड्डीनवान । अथाकाशे तमादाय काम्य तस्तस्य पुंसः शैशवात्सोऽर्भकः पौनःपुन्येन तात तातेति जल्पन कूच पितुरिवाऽकृषत् । सोऽप्यमुना बालकर्मणा नितराममोमोदीत् । यतः शिशूनां केलयः केषां प्रमोदाय नोजायन्ते, अपि तु सर्वस्यापीति भावः। तदा मनसि दध्यौ च सः । यदयं बालो मामहितमपि पुनः पुनस्तात तातेति कर्णाऽमृतगिरा पितर ममंस्त। अस्मात्कारणादमुष्मै द्रुह्यतो निर्दयस्य दुरात्मनो मम हृदयं किमिति न स्फुटिष्यति? कथं वाऽमुष्य हनने पाणिः प्रभवे जात्वपि। यत्कृत्वा जनः प्रेत्य महीयसीं भूयसीञ्च | नारकी यातनामसह्यां चिरं सहते । यच्च हिंसकोऽपि नोत्सहते कर्तुं तत्कथं कुर्याम् । धिग् | राजसेवां या हि दुर्निवारव्यसनद्रुमवाटिकीभूय लोकान्महानरके पातयतितमाम् । किञ्च-यत्राऽनावभक्ष्यमिवाऽकृत्यं किमपि नास्ति । अथवा ततोऽधिका पापीयसी कापि राक्षसी नास्त्येव ॥ ६२॥ For Personal Private Use Only Intainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy