________________
चरित्रम्।
बद्धकुमार ६२॥
168 व्रजामि चाऽहम् । इत्थं हर्षातिशयेन वातूला सा मालिनी, कदाचित्करतालिका दापयन्ती, कदाचिद्गायन्ती, कदाचिद्धासयन्ती, क्षणादात्मनः सुतं स्वेच्छया शिररयारोपयन्ती, क्षणं वक्षसि, क्षणं कटितटे, क्षणात्करकमलतले कुर्वती, तत्रागात्। अत्रावसरे कण्ठाभरणभूषितं तमर्भकं तस्याः करादाच्छिद्य सहसैव स राजपरुष आमिषं गृध्र इव गगने समड्डीनवान । अथाकाशे तमादाय काम्य तस्तस्य पुंसः शैशवात्सोऽर्भकः पौनःपुन्येन तात तातेति जल्पन कूच पितुरिवाऽकृषत् । सोऽप्यमुना बालकर्मणा नितराममोमोदीत् । यतः शिशूनां केलयः केषां प्रमोदाय नोजायन्ते, अपि तु सर्वस्यापीति भावः। तदा मनसि दध्यौ च सः । यदयं बालो मामहितमपि पुनः पुनस्तात तातेति कर्णाऽमृतगिरा पितर ममंस्त। अस्मात्कारणादमुष्मै द्रुह्यतो निर्दयस्य दुरात्मनो मम हृदयं किमिति
न स्फुटिष्यति? कथं वाऽमुष्य हनने पाणिः प्रभवे जात्वपि। यत्कृत्वा जनः प्रेत्य महीयसीं भूयसीञ्च | नारकी यातनामसह्यां चिरं सहते । यच्च हिंसकोऽपि नोत्सहते कर्तुं तत्कथं कुर्याम् । धिग् | राजसेवां या हि दुर्निवारव्यसनद्रुमवाटिकीभूय लोकान्महानरके पातयतितमाम् । किञ्च-यत्राऽनावभक्ष्यमिवाऽकृत्यं किमपि नास्ति । अथवा ततोऽधिका पापीयसी कापि राक्षसी नास्त्येव
॥ ६२॥
For Personal
Private Use Only
Intainelibrary.org