SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 169 लोके । तदुक्तम् यदश्यतामुपगता जनता किलात्र, घोरातिघोरमतिकिल्विषकारिकर्म । चर्कति मृत्युमधिगत्य हि बोभुजीति, तन्नेहतां सुमतिमानिह राजसेवाम् ॥१॥ व्याख्या-यस्या राजसेवाया वश्यतां तदधीनतामुपगता-प्राप्ता जनता-जनसमूहः । अत्र संसारे घोराऽतिघोरं-क्रूरतरं किल्विषकारि-पापकारि कर्म चर्कर्ति-अतिशयेन पौनः पुन्येन | करोति । पुनः--मृत्युमधिगत्य-मृत्वेत्यर्थः तत्फलं यमीययातनादिकं बोभुजीति पुनः पुनर्भुङ्क्ते, | तस्माद्धेतोः सुमतिमान् पुमान् इह लोके राजसेवां नेहताम् न कामयताम् । ___हन्ताऽनेन घोरकर्मणा परत्र काङ्गतिं व्रजिष्यति नरपतिः । यदेनं क्षीरकण्ठमतिमुग्धधियं | शिशुं जिघांसति पापीयानसौ लोभपिशाचग्रस्तः क्षितिपतिः। किमेष तदीयमवरोधं विदुद्राव, | | किमु कोषं वा मुमोष कुल्यो वा राज्यमादास्यमानः, शत्रुसुतो वा, यो वा सोऽस्तुतमाम्। नूनमेतस्य वसुधाधिपस्य ग्रैवेयकजिघृक्षयैव निनाशयिषा प्रादुरासीत् । अतोऽसौ पुण्यभारप्राप्यः शिशुजीवन्नेव मोक्तव्यः कुत्रापि, कण्ठाभरणमेव समादाय राज्ञे ढौकनीयमित्यवधार्य तदीयं ग्रैवेयं गृहीत्वा स JainEducation For Personal Private Use Only S pelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy