________________
169
लोके । तदुक्तम्
यदश्यतामुपगता जनता किलात्र, घोरातिघोरमतिकिल्विषकारिकर्म ।
चर्कति मृत्युमधिगत्य हि बोभुजीति, तन्नेहतां सुमतिमानिह राजसेवाम् ॥१॥ व्याख्या-यस्या राजसेवाया वश्यतां तदधीनतामुपगता-प्राप्ता जनता-जनसमूहः । अत्र संसारे घोराऽतिघोरं-क्रूरतरं किल्विषकारि-पापकारि कर्म चर्कर्ति-अतिशयेन पौनः पुन्येन | करोति । पुनः--मृत्युमधिगत्य-मृत्वेत्यर्थः तत्फलं यमीययातनादिकं बोभुजीति पुनः पुनर्भुङ्क्ते, |
तस्माद्धेतोः सुमतिमान् पुमान् इह लोके राजसेवां नेहताम् न कामयताम् । ___हन्ताऽनेन घोरकर्मणा परत्र काङ्गतिं व्रजिष्यति नरपतिः । यदेनं क्षीरकण्ठमतिमुग्धधियं | शिशुं जिघांसति पापीयानसौ लोभपिशाचग्रस्तः क्षितिपतिः। किमेष तदीयमवरोधं विदुद्राव, | | किमु कोषं वा मुमोष कुल्यो वा राज्यमादास्यमानः, शत्रुसुतो वा, यो वा सोऽस्तुतमाम्। नूनमेतस्य वसुधाधिपस्य ग्रैवेयकजिघृक्षयैव निनाशयिषा प्रादुरासीत् । अतोऽसौ पुण्यभारप्राप्यः शिशुजीवन्नेव मोक्तव्यः कुत्रापि, कण्ठाभरणमेव समादाय राज्ञे ढौकनीयमित्यवधार्य तदीयं ग्रैवेयं गृहीत्वा स
JainEducation
For Personal
Private Use Only
S
pelibrary.org