________________
170
चरित्रम् ।
पबद्ध- पुमान् बहिर्देवकुले तमर्भकमजहात् । तदनु नृपान्तिकं गत्वा तद्नेवेयकमर्पयामास । नृपोऽपि टिकुमार तदालोकमानो निष्कण्टोऽहम भूवमिति मन्यमानोऽमोमोदीत्तताम् । इतश्च तत्र देवकुले दिदृक्षया ६३॥ गगनादवतणिकञ्चनलेपयक्षं पुण्ययोगादघटः पर्यपश्यत्। स च निजतातमिव तं जानानःप्रमोदभरेण
समालिङ्ग यस्तदीयमुत्सङ्गमारुह्य तस्योच्चैस्तमङ्क्र्चमस्पृशत् । तत्रावसरे तात तातेति जल्पन्तं क्रीडन्तं | | निजाऽङ्कस्थममुं डिम्भं विलोकमानो नितराममोदत स यक्षोऽपि। असौ मधुरया गिरामां पिनीचके ऽतो मयाप्यसौ ध्रुवं पुत्रवत्पाल्यः । तदा तस्य शिशोः क्रीडाभिर्निशायास्त्रियामान् क्षणमिव स | व्यतीयाय । पश्चात्तत्रैवासन्नवनेऽपुत्रमश्वक्रयिकं देवधरनामधेयं वासितमवधिज्ञानेन विदित्वा स | यक्षराट् तत्रागत्य शयनीये सुखसुप्तं तमुदलीलपत्-भव्य ! निशावसानेऽधुना किं शेषे, IN इति मधुरया गिरा । सोऽपि तद्वाक्यमाकलय्य प्रबुद्धो भवन् मनसि कौतुकं विदधानः शयनादधोऽवतीर्य सुविस्मितस्तमूचिवान्-खामिन् ! कोऽसि, किमादिशसि च, इत्थं तेन भणितो
यक्षेश्वरोऽवादीत् । अहं यक्षेशोऽस्मि, वने च मदीये प्रत्यहं गमागमं कुर्वाणो भवानत्र निवसति, Hal कदापि किञ्चिदपि नोपद्रवयसे च, तेनाद्य त्वयि प्रसन्नीभूय तवान्तिकमागतोऽस्मि । किमपि
॥६३ ॥
Sain Educ
a
tional
For Personal & Private Use Only
ainelibrary.org