SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 163 विलोक्य निजवल्लभामभाषत-अयि प्रिये ! विलोकय । दैवात्कीदृशीजाता वनशोभेति । अहो ! किमिदं वनं नीरस्फारभारखिन्नो वारिदोऽसिचत् , येन चिरशुष्कमपि पुनर्नवीभूतभवलोक्यते, किं वा स्वर्गान्नन्दनं वनं भूमावतीर्णम् । तदाऽत्याश्चर्यं पश्यन्ती तद्वधूरिति जल्पितवती-नाथ ! नायमात्मीयः । स्वकीयो हि पुरा विशुष्कतरतरुलतादिक आसीत् स ईदृशः क्षणादजायत, इति कदापि न सम्भवति । पुनरारामिकोऽवदत्-प्रियतमे ! किमिति कथयसि । ममैवेदमुद्यानं, नान्यस्य कस्यापि कथमात्मीयममुमाघाटं विलोकमानापि भवती नात्मीयमिति जल्पति । ममैवेदमिति निश्चित्य प्रेयस्या सत्रा वनान्तरे पत्रैः कुसुमोद्गमैः प्रचुरफलैः शोभितां चेतोहरां तरुराजिं तथा सरित्तुल्या वहन्तीः कुल्याश्च पश्यन् मनसि भृशं तुष्यन् स तत्कूपाभ्याशमागात् । तत्र स्थितभर्मकमवलोक्य मनस्यचिन्तयत् । अहो क्रीडार्थमागतायाः कस्याश्चिदमरवध्वा विस्मृतापत्यमिवैष बालकः प्रतिभाति । तदनु स मालाकारः-प्रोच्वैरघटोऽयमिति जल्पन् तमर्भकमादाय तदीयसुकृतनिचयैः प्रोल्लसदाश्चर्यकारिमनोहारिशरीरत्विषां चयैश्च चित्रीयमाणो भवन् प्रेयसी व्याजहार-सुन्दरि ! एष शिशुः साधारणो नास्ति, कश्चन महाप्रभावो दिव्यात्मकोऽनु in Educ a t For Personal & Private Use Only INDainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy