________________
चरित्र
कुमार
16 तत्र गत्वा तां दासी सुप्तामालोक्य तं बालकमुपादाय बहिः क्वापि निर्जनप्रदेशे समागाताम् । तत्रैकः करुणया द्वितीयमेवमजल्पत्-भ्रातः ! अमुष्य गर्भकल्पस्य सुलक्षणस्य शिशोर्मारणे मनसि मे महती घृणा समुत्पद्यते । अतस्त्वमेवैनं जहि, मुश्च वा। तदाकर्ण्य द्वितीयोऽवदत्-हन्त ! किमेवमाख्यासि, मत्पूर्वजा अपि भ्रमादपि बालहत्यागर्भहत्यादि महापापं नैव चक्रिवांसः, किञ्च को नाम प्राणी दीने वियुक्ते च मातापितृभ्यां शिशौ नानुकम्पां बिभर्ति, पश्य, विधुन्तुदोपि जात्वपि बालेन्दुं नो असति, एवं तर्हि मामेतमर्भकं हिंसितुं यदीरयसि, तन्न शोभनं मन्ये । अतोऽयमर्भको मया नैव घानिष्यते, त्वयैवाऽयङ्करुणास्पदं हन्तव्यो मोक्तव्यो वा । इत्थं तस्य वधे विवदमानाभ्यामुभाभ्यामपि मनसि समुद्भूतप्रभूतदयावद्भयां कुत्रापि जीर्णवने कूपोपकण्ठेऽत्याजि सोऽर्भको जीवन्नेव, समागत्य च तौ राजानमित्यजल्पताम्-स्वामिन् ! इदानीमेव स कृतान्ताय वलीकृतः, तदानीं तयोः सुधोपमं तद्वचनमाकर्ण्य तत्कालमेव विशल्यतां मन्यमानः परमां निर्वृतिमापञ्च । इतश्च महीयसः शिशोः प्रभावतः शुष्कमपि तदुपवनं समुद्भूतपल्लवकुसुमफलादिभिर्मनोरममभूत् । प्रातस्तत्रागत आरामिकः स्ववनं नवीनमद्भुतश्रियं
॥ ५९।
in E
slational
For Personal Private Use Only
rw.dainelibrary.org