SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चरित्र कुमार 16 तत्र गत्वा तां दासी सुप्तामालोक्य तं बालकमुपादाय बहिः क्वापि निर्जनप्रदेशे समागाताम् । तत्रैकः करुणया द्वितीयमेवमजल्पत्-भ्रातः ! अमुष्य गर्भकल्पस्य सुलक्षणस्य शिशोर्मारणे मनसि मे महती घृणा समुत्पद्यते । अतस्त्वमेवैनं जहि, मुश्च वा। तदाकर्ण्य द्वितीयोऽवदत्-हन्त ! किमेवमाख्यासि, मत्पूर्वजा अपि भ्रमादपि बालहत्यागर्भहत्यादि महापापं नैव चक्रिवांसः, किञ्च को नाम प्राणी दीने वियुक्ते च मातापितृभ्यां शिशौ नानुकम्पां बिभर्ति, पश्य, विधुन्तुदोपि जात्वपि बालेन्दुं नो असति, एवं तर्हि मामेतमर्भकं हिंसितुं यदीरयसि, तन्न शोभनं मन्ये । अतोऽयमर्भको मया नैव घानिष्यते, त्वयैवाऽयङ्करुणास्पदं हन्तव्यो मोक्तव्यो वा । इत्थं तस्य वधे विवदमानाभ्यामुभाभ्यामपि मनसि समुद्भूतप्रभूतदयावद्भयां कुत्रापि जीर्णवने कूपोपकण्ठेऽत्याजि सोऽर्भको जीवन्नेव, समागत्य च तौ राजानमित्यजल्पताम्-स्वामिन् ! इदानीमेव स कृतान्ताय वलीकृतः, तदानीं तयोः सुधोपमं तद्वचनमाकर्ण्य तत्कालमेव विशल्यतां मन्यमानः परमां निर्वृतिमापञ्च । इतश्च महीयसः शिशोः प्रभावतः शुष्कमपि तदुपवनं समुद्भूतपल्लवकुसुमफलादिभिर्मनोरममभूत् । प्रातस्तत्रागत आरामिकः स्ववनं नवीनमद्भुतश्रियं ॥ ५९। in E slational For Personal Private Use Only rw.dainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy