________________
16.1
ल्यमानो नरपतिः क्षणमपि स्थातुमक्षमस्तदेव सभां विससर्ज। तदैव पुरोधसा साधू स नरपतिस्तत्र गत्वा समुदितं बालार्कमिव कल्पतरोरङ्कुरमिव द्वितीयायामभ्युदितं शशधरमिव पुण्यानां निधानमिव श्रीणां क्रीडोद्यानमिवाऽशेषराजलक्षणलक्षितं तं बालर्कमपश्यत् । तमद्भुतं विलोक्य राजाऽजल्पत् । विधे ! त्वां धिगस्तु । यतस्ते सृष्टिरीदृशीयमजायत । येन च त्वयाऽविवेकिना नूनमिदं पुं माणिक्यं दौष्कुल्येन कलङ्कितमकारि । सन्तश्च निर्धनाश्चक्रिरे । दुष्कुले च पुंरत्नमुदपादि। मूर्खाहि धनिनो विदधिरे । एतत्रयी तावकीनैव स्खलना प्रतीयते । इत्थं हर्षशोको मानसे विद- - धानो नरपतिः स्वसदनमागात् । सायङ्काले पुनरेष मनस्येवमचिन्तयत् । हन्त, मत्पुत्रे मयि च जीवति सति कथमेष दासेयः शाशिष्यति मदीयाः प्रजाः। को जानीयात् विधेश्चेष्टितम् । अत इदानीमेव मया नखच्छेद्यतां नीतेऽमुष्मिन् नाऽऽयतौ कुठारच्छेद्यतामसौ जातुचिदपि नो ब्रजिष्यतीति । अपि च-सुखेप्सुभिः प्रभुभिः समुत्थिताः कलहवह्वि-रोग-ऋणाऽरयो नोपेक्षितव्याः कदाचिदपि, यतोऽमी वर्धिताः सन्तो नितरां दुःखदा भवन्ति, अशक्याश्च प्रतीकर्तुं पश्चादिति निश्चित्य | कृत्याऽकृत्यमगणयन्नेष नरराजस्तस्य शिशोर्विघाताय पदातिद्वयमाज्ञापयत् । अथ तावपि पुमांसौ al
Sain Education international
For Personal Private Use Only
www.jainelibrary.org