SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 16.1 ल्यमानो नरपतिः क्षणमपि स्थातुमक्षमस्तदेव सभां विससर्ज। तदैव पुरोधसा साधू स नरपतिस्तत्र गत्वा समुदितं बालार्कमिव कल्पतरोरङ्कुरमिव द्वितीयायामभ्युदितं शशधरमिव पुण्यानां निधानमिव श्रीणां क्रीडोद्यानमिवाऽशेषराजलक्षणलक्षितं तं बालर्कमपश्यत् । तमद्भुतं विलोक्य राजाऽजल्पत् । विधे ! त्वां धिगस्तु । यतस्ते सृष्टिरीदृशीयमजायत । येन च त्वयाऽविवेकिना नूनमिदं पुं माणिक्यं दौष्कुल्येन कलङ्कितमकारि । सन्तश्च निर्धनाश्चक्रिरे । दुष्कुले च पुंरत्नमुदपादि। मूर्खाहि धनिनो विदधिरे । एतत्रयी तावकीनैव स्खलना प्रतीयते । इत्थं हर्षशोको मानसे विद- - धानो नरपतिः स्वसदनमागात् । सायङ्काले पुनरेष मनस्येवमचिन्तयत् । हन्त, मत्पुत्रे मयि च जीवति सति कथमेष दासेयः शाशिष्यति मदीयाः प्रजाः। को जानीयात् विधेश्चेष्टितम् । अत इदानीमेव मया नखच्छेद्यतां नीतेऽमुष्मिन् नाऽऽयतौ कुठारच्छेद्यतामसौ जातुचिदपि नो ब्रजिष्यतीति । अपि च-सुखेप्सुभिः प्रभुभिः समुत्थिताः कलहवह्वि-रोग-ऋणाऽरयो नोपेक्षितव्याः कदाचिदपि, यतोऽमी वर्धिताः सन्तो नितरां दुःखदा भवन्ति, अशक्याश्च प्रतीकर्तुं पश्चादिति निश्चित्य | कृत्याऽकृत्यमगणयन्नेष नरराजस्तस्य शिशोर्विघाताय पदातिद्वयमाज्ञापयत् । अथ तावपि पुमांसौ al Sain Education international For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy