________________
चरित्रम् ।
कुमार 1८॥
160 निमितज्ञ ! विस्मयस्य कारणं माङ्कथय? सोऽवक् राजन्! एतत्कारणं माप्राक्षीः। आकर्णिते चैत- स्मिन् तव महान् खेदो भविष्यति । तदा पौनःपुन्येन तत्कारणं तस्मिन् पृच्छति सति स पुरोधा अपि तत्कारणं वक्तुमारभत । तथाहि-स्वामिन् ! ममालये काचिदेका दासी निवसति, तस्याः । पुत्रोऽजायत । स पुत्रापि सा शूद्रा मामके कुटीरके तिष्ठति । तदाकर्ण्य नृपोऽवदत्-भोः पुरोहित ! सा दासी पुत्रमसविष्ट, तेन तवेदानीमियान् विस्मयाटोपः कथमजनिष्ट, मुधैव तवेयं विषादः प्रतीयते । तदा निमित्तज्ञः स राजानमित्याख्यत्-राजन् ! मामवज्ञासीरेवं मद्वाक्ये, यदसौ शिशुः सकलक्षितिपतीनामखर्वदर्पहा भूपतिर्भविष्यति । पुनरूचे नरपतिः-भोः ! यथाऽन्ये राजानो वर्तन्ते, ॥ तथाऽयमपि जायतां भूपतिः का ते हानिस्तेनापीति। पुनरवोचत नैमित्तिकः-क्षितिपते ! स राज्यङ्करिष्यति, तेन मे मनागपि विस्मयः क्लेशो वा मानसे नोत्पद्यते । किन्तु त्वयि जीवति सति ! त्वदीयेऽस्मिन्नगर एव स नूनम्भविष्यति सर्वेषां शासितेति विस्मयो मे महान् समुत्पद्यते । इदमेव विस्मयस्य कारणमवेहि । अनेन भवन्मनसि दुःखं सुखं वा समुत्पद्यतां नाम, परमेतस्मिन् व्यत्यासः कर्हिचिदपि नैव भवितुमर्हति, शिलाक्षरवत् । इत्याकलयन् कोपाटोपादन्तःकरीषाऽग्निरिव जाज्व
॥ ५८॥
SainEd
i
temational
For Personal Private Use Only
१
w
.dainelibrary.org