SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 159 पुण्यफलदर्शक-श्रीअघटकुमारचरित्रम् । गुरुवरचरणसरोजं हृदये निधाय भवजलधिसुपोतम् । अघटकुमारचरित्रं रचयति सकलोपयोगकृते ॥१॥ __ अमुष्मिन् संसारे लौकिकसाहाय्यरहितानामपि पुण्यवतां प्राणिनामघटस्येव ध्रुवं विपदोऽपि । सम्पद एव जायन्ते । तथाहि इहैव भरतक्षेत्रे सकलदेशशिरोरत्नायितोऽवन्तीनाम महीयान् देशो विचकास्ति । वरीवृत्यते चात्र सकलभुवनतलीयनगरवरमण्डनी विशालानाम्नी श्रीशालिनी नगरी । निवसति चाऽस्यां दासीकृताऽशेषविपक्षपक्षः सुघटिताऽभिधानो भूजानिः। अस्य क्षितिभुजः सुरसुन्दरीव रूपलावण्यमञ्जरी सुन्दरी नाम्नी प्रेयसी विद्यते, यामालोकमाना दृढव्रता मुनयोऽपि क्षुभ्यन्ति। तयोश्चाऽतुलबलपराक्रमी विक्रमसिंहनामा पत्रो विभ्राजते । अस्ति चास्य ज्ञानगर्भनामा नौमित्तिकः पुरोहितः।। अथैकदा सभायामागत्य कोऽपि पुमान् कर्णाऽभ्याशे पुरोहितं किमपि न्यगादीत् । त्तच्छुत्वा स नितरां विस्मयमापद्य तस्योत्तरं शिरःकम्पनेनाऽकरोत् । तत्रावसरे राजा सुविस्मितं पुरोधसमपृच्छत् JanEduce For Personal Private Use Only ainelibrary.org.
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy